SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं -, ------------- मूलं [...१८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [...१८० दीप अनुक्रम [४०४] चतुर्थः पोडश पञ्चमो द्वात्रिंशतं षष्ठश्चतुःषष्टिं, स चैवं पञ्चमवर्गेण गुणितः षण्णवतिः, कथमेतदवसेयमिति चेत्, उच्यते, इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तत्र तयोईयोरपि छेदनकानि प्राप्यन्ते, यथा प्रथमवर्गेण गुणिते द्वितीयवर्गे षट्, तथाहि-द्वितीयो वर्गः पोडशलक्षणः प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता। चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत् द्वितीयं षोडश तृतीयमष्टी चतुर्थ चत्वारः पञ्चमं वो षष्ठं एक इति, एवमन्यत्रापि भावनीयं, तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि षष्ठे चतुःषष्टिः, ततः पञ्चमवर्गण षष्ठे वर्गे गुणिते। षण्णवतिछेदनकानि प्राप्यन्ते, अथवा एकं रूपं स्थापयित्वा ततः षण्णवतिवारान् द्विगुणद्विगुणीक्रियते, कृतं च। Sसत यदि तावत्प्रमाणो राशिर्भवति ततोऽयसातव्यं एष षण्णवतिच्छेदनकदायी राशिरिति, तदेवं जघन्यपदम-18 भिहितम् , इदानीमुत्कृष्टपदमाह-'उकोसपए असंखेज्जा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति ते असङ्ख्ययाः, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकमनुष्यापहारे सामस्त्सेनासोयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यरेका श्रेणिः परिपूर्णाऽपहियते, किमुक्तं भवति-उत्कृष्टपदे ये मनुष्यास्तेषु। मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्से सकलाऽपि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्ययाभिरुत्सर्पिण्यवसर्पिणीभिः क्षेत्रतोऽङ्गुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नं, किमुक्तं भवति-अङ्गुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्तस्य यत्प्रथमं वर्गमूलमसकल्पनया ~567~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy