________________
आगम
(१५)
प्रत
सूत्रांक
[१२]
दीप
अनुक्रम
[२१]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
दार [-],
मूलं [१२]
पदं [१],
उद्देशक: [-],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
स्यात् तत एवं सति व्याकरणसूत्रमित्थं भवेत् -"सिय आहारए सिय अणाहारए' यथा शरीरादिपर्याप्तिपु 'सिय आ हारए सिय अणाहारए" इति, सर्वासामपि च पर्यातीनां परिसमाप्तिकालोऽन्तर्मुहूर्तप्रमाणः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ता "अश्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, पर्याप्तकाश्च ते सूक्ष्मपृथिवीकायिकाश्च पर्याप्तकसूक्ष्मपृथिवीकायिकाः, चशब्दो लब्धिपर्याप्तकरणपर्याप्त रूपवगत भेदद्वयसूचकः, ये पुनः स्वयोग्यपर्याप्तिपरिसमातिविकलास्तेऽपर्या साः अपर्याप्ताश्च ते सूक्ष्मपृथिवीकायिकाश्चापर्याप्तसूक्ष्मपृथिवीकायिकाः, चशब्दः करणलब्धिनिबन्धनस्वगतभेदद्वयसूचकः, तथाहि - द्विविधाः सूक्ष्मपृथिवीकायिका अपर्याप्तास्तद्यथा-लब्ध्या करणैश्च तत्र येऽपर्याप्तका एव सन्तो म्रियन्ते ते लब्ध्यपर्याप्तकाः, ये पुनः करणानि शरीरेन्द्रियादीनि न तावन्निर्वर्त्तयन्ति अथचावश्यं निर्वर्त्तयिष्यन्ति ते करणापर्याप्ताः, उपसंहारमाह- 'सेत' मित्यादि, त एते सूक्ष्मपृथिवी कायिकाः ॥ तदेवं सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथिवीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाह
से किं तं बादरपुढचिकाइया ?, बादरपुढविकाइया दुविहा पनचा, तंजहा सण्हबादरपुढविकाइया य खरबादरपुढविका(इया य (सू. १३)
अथ के ते वादरपृथिवीकायिकाः १, सूरिराह - पादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-लक्ष्णवादरपृथिवीकायिकाच खरवादरपृथिवी कायिकाच, तत्र श्लक्ष्णा नाम चूर्णितलोष्ठकल्पा मृदुपृथिवी तदात्मका जीवा अध्युपचा
For Parts Only
~55 ~