________________
आगम
(१५)
प्रत
सूत्रांक
[१७९
-१८०...]
दीप
अनुक्रम
[४०३
-४०४]
प्रज्ञापना
याः मल
य० वृत्ती.
॥२७७॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [१२],
उद्देशक: [-],
दारं [-],
मूलं [ १७९-१८०...]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
माणा एव पृच्छासमये वायवो वैकियवर्त्तिनोऽवाप्यन्ते नाधिका इति, इह केचिदाचक्षते ---सर्वे वायवो वैक्रियवर्त्तिन एव, अवैक्रियाणां चेष्टाया एवासम्भवात्, तदसमीचीनं, वस्तुगतेरपरिज्ञानात्, वायवो हि स्वभावाचलास्ततोवैक्रिया अपि ते वान्ति इति प्रतिपत्तव्यं, वाताद्वायुरिति व्युत्पत्तेः, आह च चूर्णिकृत् - "जेण ससु चैव लोगागासेसु चला वायवो वायंति तम्हा अयेउधियावि वाया वायंतीति वित्तव”मिति, मुक्तानि वैक्रियाण्यौधिकमुक्तवत्, तेजसकार्मणानि बद्धानि बद्धौदारिकवत् मुक्तान्यधिकमुक्तवत्, मनस्पतिकायिक चिन्तायामौदारिकाणि पृथिष्यादिवत्, तैजसकार्मणान्यौधिक तैजस कार्मणयत् । द्वीन्द्रियसूत्रे बद्धान्यौदारिकशरीराणि असङ्ख्येयानि ततः कालतः परिमाणचिन्तायामसङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते – असङ्ख्यातासूत्सपिण्यवसर्पिणीषु यायन्तः समयास्तावत्प्रमाणानीति भावः, क्षेत्रतोऽसङ्गेयाः श्रेणयोऽसङ्ख्यातासु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणानीत्यर्थः, तासां श्रेणीनां परिमाण विशेष निर्द्धारणार्थमाह- प्रतरासङ्ख्येयभागः प्रतरस्यासङ्ख्येय भागप्रमिता असलेया श्रेणयः परिगृह्यन्ते इति भावः । प्रतरासङ्ख्येयभागो नैरयिकभवनपतीनामपि प्रतिपादितस्ततो विशेषतरपरिमाणनिरूपणार्थं सूचीमानमाह - 'तासि णं सेढीण' मित्यादि, तासां श्रेणीनां परिमाणावधारणाय या विष्कम्भसूची सा असल्या योजन कोटी कोट्यः अस येययोजनकोटी कोटिप्रमाणा इत्यर्थः, अथवेदमन्यद्विशेषतः परिमाणं - 'असंखेज्जाएं सेढिवग्गमूलाई' इति, एकस्याः परिपूर्णायाः श्रेणेर्यः प्रदेशराशिस्तस्य प्रथमं वर्गमूलं द्वितीयं तृतीयं च वर्गमूलं यावदसत्येयतमं
Education International
For Par Use Only
~ 558 ~
१२ शरीरपदं
॥२७७|