________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [१७९-१८०...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१७९
2999
-१८०...
यभागप्रदेशात्मिकेति, युक्तं चैतत् , यस्मान्महादण्डके सर्वेऽपि भवनपतयो रवप्रभानैरयिकेभ्योऽप्यसयेय गुणहीना उक्तास्ततः सर्वनैरयिकापेक्षया सुतरामसङ्ख्येयगुणहीना भवन्ति, मुक्तान्यौधिकमुक्तवत् , आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत् मुक्तान्यौधिकमुक्तवत्, यथा चासुरकुमाराणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्यं, यावत्स्तनितकुमाराणां । पृथिव्यप्तेजःसूत्रेषु बद्धान्यौदारिकशरीराणि असह्मवेयानि, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतः परिमाणचिन्तायामसङ्ख्येयालोका:-आत्मीयावगाहनाभिरसङ्ख्येया लोका व्याप्यन्ते, मुक्तान्यौधिकमुक्तवत् , तैजसकार्मणानि बद्धानि बद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत्, वातकायस्याप्यौदारिकशरीराणि पृथिव्यादिवत्, वैक्रियाणि बद्धान्य|सङ्ख्ययानि, तानि च प्रतिसमयमेकैकशरीरापहारे पल्योपमासङ्ख्येयभागेन निःशेषतोऽपहियन्ते, किमुक्तं भवति ?पल्योपमासङ्ख्येयभागे यावन्तः समयास्तावत्प्रमाणानीति न पुनरभ्यधिकानि स्युः, तथाहि-वायुकायिकाश्चतुर्विधाः, तद्यथा-सूक्ष्मा बादराश्च, एकैके द्विधा-पर्याप्ता अपर्याप्ताश्च, तत्र बादरपर्याप्तव्यतिरिक्ताः शेषाखयोऽपि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणाः, ये तु वादरपर्याप्तास्ते प्रतरासङ्ख्येयभागप्रमाणाः, तत्र त्रयाणां राशीनां वैक्रियलब्धिव नास्ति, बादरपर्याप्तानामपि सङ्ख्येयभागमात्राणां लब्धिः न शेषाणां, आह च चूर्णिकृत्-"तिण्हं ताव रासीणं बेचियलद्धी चेव नस्थि, वायरपज्जत्ताणपि संखेजइभागमेत्ताणं लद्धी अथिति, ततः पल्योपमासङ्खयेयभागसमयप्र
दीप अनुक्रम [४०३-४०४]
909203929202
~557~