________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-1, ------------- दारं [-], ------------- मूलं [१७७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१७७]
दीप अनुक्रम [४०१]
तस्य लोकस्य सर्वतः सप्तरजुप्रमाणस्थायामतः सत्वरज्जुप्रमाणा मुक्तावलिरिवैकाकाशप्रदेशपक्लि, कथं पुनर्लोको घनीI क्रियते ?, कथं वा सप्तरज्जुप्रमाणो भवति इति चेत् ?, उच्यते, इह लोक ऊर्ध्वाधश्चतुर्दशरज्जुप्रमाणोऽधस्ताद्विस्तरतो
देशोनसप्तरज्जुप्रमाणः एकरज्जुर्मध्यभागे ब्रमलोकप्रदेशे बहुमध्यदेशभागे पञ्चरज्जुरुपरि एका रज्जुर्लोकान्ते, रजोश्च परिमाणं खयम्भूरमणसमुद्रस्य पूर्ववेदिकान्तादारभ्यापरवेदिकान्तं यावत्, एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य बुद्धा त्रसनाच्या दक्षिणभागवय॑धोलोकखण्डमधो देशोनत्रिरज्जुविस्तारमतिरिक्तससरज्जूच्छूयं परिगृह्य प्रसनाच्या उत्तरपार्थे ऊ धोभागविपर्यासेन सङ्कायते-ऊर्श्वभागोऽधः क्रियते अधोभाग| स्तू मिति सङ्घात्यते इति, तत ऊईलोके त्रसनाख्या दक्षिणभागवर्तिनी ये द्वे खण्डे कूर्पराकारसंस्थिते प्रत्येकं देशोISI नार्द्धचतुष्टयरज्जूच्छ्ये ते बुद्धा समादाय वैपरीत्येनोत्तरपार्थे सहायेते, एवं च किं जातम् ?, अधस्तनं लोकार्थे
देशोनचतुरज्जुविस्तारं सातिरेकसप्तरज्जूच्छयं उपरितनमर्द्ध त्रिरज्जविस्तारं देशोनसप्तरज्जूच्छयं, तेन उपरितनमद्धे ॥ बुद्ध्या गृहीत्वाऽधस्तनस्वार्द्धस्योत्तरपार्थे सङ्घात्यते, तथा च सति सातिरेकसप्तरज्जूच्छ्यो देशोनसप्तरज्जुविस्तारो घनो जातः, अतः सप्तरज्जूनामुपरि यदधिकं तत्परिगृह्य ऊर्दाध आयतमुत्तरपार्थे सङ्घात्यते, ततो विस्तरतोऽपि परिपूणों सप्त रज्जवो भवन्ति, एवमेष लोको घनीक्रियते, घनीकृतश्च सप्तरज्जुप्रमाणो भवति, यत्र च वचन घनत्वेन सप्तरज्जुप्रमाणता न पूर्यते तत्र बुद्ध्या परिपूरणीयं, एतच्च पट्टिकादो लिखित्वा दर्शयितन्यं, सिद्धान्ते च यत्र कचनापि
~549~