________________
आगम
(१५)
प्रत
सूत्रांक
[१७७]
दीप
अनुक्रम
[४०१]
प्रज्ञापनाया मल
य०वृत्तौ.
॥२७३॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
उद्देशक: [ - ],
मूलं [ १७७]
दारं [-] ...आगमसूत्र [१५] उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [१२].
मुनि दीपरत्नसागरेण संकलित..
Eucation International
श्रेणे ः प्रतरस्य वा ग्रहणं तत्र सर्वत्राप्येवं घनीकृतस्य लोकस्य सप्तरज्जुप्रमाणस्यावसातयं, मुक्तान्यौदारिकवद् भावनीयानि । आहारकविषयं सूत्रं 'केवइया णं भंते ! आहारगसरीरगा इत्यादि, 'बद्धानि सिय अस्थि सिय नत्थि' इति अस्तीति निपातो बहुवचनगर्भः कदाचित्सन्ति कदाचित् न सन्तीत्यर्थः यस्मादन्तरमाहारकशरीरस्य जघन्यत एकः समयः उत्कर्षतः षण्मासाः उक्तं च- "आंहारगाई लोए छम्मासे जा न होंतिवि कयाइ । उक्कोसेणं नियमा एकं समयं जहणं ॥ १ ॥” इति यदापि भवन्ति तदाऽपि जघन्यतः एकं द्वे वा उत्कर्षतः सहस्रपृथक्त्वं, मुक्तान्यौदारिकवत् । तैजसविषयं सूत्रमाह – 'केवइया णं भंते ! तेयगसरीरया' इत्यादि, तत्र बद्धान्यनन्तानि, अनन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति- 'अनंताहिं' इत्यादि, कालतः परिमाणमनन्तोत्सर्पिण्यवसर्पिणीसमय प्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशखण्डप्रदेशपरिमाणानि, द्रव्यतः परिमाणं सिद्धेभ्योऽनन्तगुणानि, तैजसं हि शरीरं सर्वसंसारिजीवानां प्रत्येकं, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, ततस्तैजसशरीराण्यपि सिद्धेभ्योऽनन्तगुणानि भवन्ति, 'सजीव अनंतभागूणा' इति सर्वजीवानां योऽनन्ततमो भागस्तेनोनानि इयमत्र भावना - सिद्धानां तैजसशरीरं न विद्यते, सर्वशरीरातीतत्वात् तेषां, सिद्धाश्च सर्वजीवानामनन्तभागे, ततस्तेनोनानि सर्वजीवानामनन्तभागोना नि भवन्ति, मुक्तानि अनन्तानि, तदेवानन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयति- 'अणंताहिं' इत्यादि, कालक्षेत्रसूत्रे प्राग्वत्,
१ आहारकाणि लोके पण्मासान् यावन्न भवन्त्यपि कदाचित् । उत्कृष्टतो नियमादेकः समयो जघन्येन ॥ १ ॥
For Parts Only
------------
~ 550 ~
१२ शरीरपदं
॥२७३ ॥