________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१२], ------------- उद्देशक: [-], ------------- दारं [-], ------------- मूलं [१७७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१७७]
दीप अनुक्रम [४०१]
नाप्यौदारिकत्वेन गृहीत्वा मुक्ताः पुद्गलाः, तेषामुक्तदोषप्रसङ्गात् , किन्तु यच्छरीरमौदारिक जीवेन गृहीत्वा मुक्त तत् विशरारुभावं बिभ्राणमनन्तभेदभिन्नं भवति ते चानन्ता भेदा भवन्तो यावत्ते पुद्गला औदारिकपरिणामं न जहति तावत्प्रत्येकमौदारिकशरीरव्यपदेशं लभन्ते, ये पुनरौदारिकपरिणामं त्यक्तवन्तस्ते न गण्यन्ते, तत एवमेकस्थापि शरीरस्थानन्तानि शरीराणि जातानि, एवं सर्वशरीरेष्वपि भावनीयं, तथा च सत्येकैकस्य शरीरस्थानन्तभेदभिन्नत्वादेकस्मिन्नपि समये प्रभूतान्यनन्तानि शरीराण्यवाप्यन्ते, तेषां चासत्येयकालमवस्थानं, तेन चासङ्ग्येयेन कालेनान्यानि जीवैर्विप्रमुक्तान्यसङ्ग्येयान्यवाप्यन्ते, तान्यपि च प्रत्येकमनन्तभेदभिन्नानि, तेषु च मध्ये तावता कालेन यान्यौदारिकशरीरपरिणामं विजहति तानि परित्यज्यन्ते शेषाणि गण्यन्ते, तत एवं मुक्कानि यथोक्तप्रमाणानन्तस
याकान्यौदारिकशरीराण्युपपद्यन्ते इति, न चैतत्खमनीषिकाविजृम्भितं, यत आह चूर्णिकृत्-"नवि अषिगलाणमेNR केवलाणंपि गहणं एयं न य ओरालियगहणमुक्काणं सबपुग्गलाणं, किन्तु जं सरीरमोरालिकं जीवेण मुकं तं चेव
अणंतभेयभिन्नं [च] होइ जाव ते पुग्गला तं जीवनिवत्तियं ओरालियसरीरकायप्पओगं न मुंचंति न ताव अण्णपरिणामेण परिणमंति ताई पत्तेयं सरीराई भण्णंति, एवमेकेकस्स ओरालियसरीरस्स अणंतभेयभिन्नत्तणओ अणंताई चेच ओरालियसरीराई भवति" इत्यादि, आह-कथमेकैकशरीरद्रव्यदेशः शरीरत्वेन व्यवहियते ?, उच्यते, लवणदृष्टान्तेन, तथाहि खार्यपि लघणमुच्यते द्रोणोऽपि लवणमाढकोऽपि लवणं यावदेकापि शर्करा लवणमेवमिहापि सकलमप्यो
SASA
~547~