SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१६५] + गाथा: दीप अनुक्रम [३७९ -३८८] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशकः [-], दारं [-], पदं [११], मूलं [१६५] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः कश्चिदेवं वदति - अहो महान् जीवराशिरयमिति तदा सा जीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वात् मृतेषु मृषात्वात् ४, तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति - अहो महानयं मृतो जीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्यामृषात्वं मृतेषु सत्यत्वात् जीवत्सु मृषात्वात् ५, तथा तस्मिन्नेव राशौ एतावन्तोऽत्र जीवन्त एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६, तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येक वनस्पतिना मिश्रमवलोक्य सर्वोऽप्येपोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७ तथा प्रत्येक वनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्य प्रत्येक वनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८, तथा अद्धा -- कालः, स चेह प्रस्तावात् दिवसो रात्रिर्वा परिगृह्यते, स मिश्रितो यया साऽद्धामिश्रिता, यथा कश्चित् कञ्चन त्वरयन् दिवसे वर्त्तमान एव वदति - उत्तिष्ठ रात्रिर्यातेति, रात्रौ वा वर्त्तमानायामुत्तिष्ठोद्गतः सूर्य इति ९, तथा दिवसस्य रात्रेर्वा एकदेशोऽद्धाद्धा सा मिश्रिता यया सा अद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्त्तमानायां कश्चित् कञ्चन त्वरयन् एवं वदति - चल मध्याहीभूतं इति । असत्यामृषा द्वादशविधा, तद्यथा - 'आमंतणि' इति तत्र आमन्त्रणी हे देवदत्त इत्यादि, एषा हि प्रागुक्तसत्यादिभापात्रयलक्षणविकलत्वान्न सत्या नापि मृषा नापि सत्यामृषा केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्र भावना कार्या, आज्ञापनी कार्ये परस्य प्रवर्त्तनं, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३ Eucation International For Park Use Only ~ 521~ yor
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy