________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], ---------------- उद्देशक: [-], --------------- दारं [-], -------------- मूलं [१५९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५९]
दीप अनुक्रम
| 'कह णं भंते ! संठाणा पं०' इत्यादि सुगम, परिमण्डलादीनां संस्थानानां खरूपस्याधः प्रथमपद एव सविस्तरं प्ररूपितत्वात् शेष पाठसिद्धं, नवरं 'परिमंडले णं भंते ! संठाणे संखेजपएसिए कि संखेजपएसोगाढे पुच्छा, गो० ! संखेजपएसोगाढे नो असंखेजपएसोगाढे नो अणंतपएसोगाढे' इति यस्मात् तस्य सङ्ख्येया एव प्रदेशास्ततः कथमसङ्ख्येयेष्वनन्तेषु वा प्रदेशेष्ववगाहते इति, असङ्ख्यातप्रदेशात्मकमनन्तप्रदेशात्मकं वा पुनः परिमण्डलसंस्थान सङ्ख्ययेष्वसद्धयेयेषु वा प्रदेशेष्ववगाहते विरोधाभावान्नानन्तप्रदेशेषु असङ्ख्यातप्रदेशात्मकस्थानन्तेषु प्रदेशेष्यवगाहनाविरोधात्, अनन्तप्रदेशात्मकस्यापि विरोध एव, यस्मालोकोऽप्यसलयातप्रदेशात्मक एव, लोकादन्यत्र च पुद्गलानां गत्यसम्भवः, तस्मादनन्तप्रदेशिकमप्यसङ्ख्येयेषु प्रदेशेष्ववगाहते नानन्तेषु, एवं वृत्तादीन्यपि संस्थानानि प्रत्येक भावनीयानि, सङ्घवातप्रदेशासङ्ख्यातप्रदेशानन्तप्रदेशपरिमण्डलादिसंस्थानचरमाचरमादिचिन्तायां निर्वचनसूत्राणि रत्नप्रभाया इव प्रत्येतव्यानि, अनेकावयवाविभागात्मकत्वविवक्षायामचरमं च चरमाणि चेति निर्वचनं प्रदेशविवक्षायां चरमान्तप्रदेशाचाचरमान्तप्रदेशाश्च । सम्प्रति सङ्ख्यातप्रदेशस्य सङ्ख्यातप्रदेशावगाढस्य परिमण्डलादेश्वरमाचरमादिविषयमल्पबहुत्वमभिधित्सुराह-'परिमंडलस्स णं भंते !' इत्यादि, सुगमं नवरं द्रव्यार्थताचिन्तायां 'चरमाणि संखे. जगुणाई' इति सर्वात्मना परिमण्डलसंस्थानस्य सङ्ख्यातप्रदेशात्मकत्वात् , असङ्ख्यातप्रदेशस्थासङ्ख्यातप्रदेशावगाढस्याल्पवहुत्वं रत्नप्रभाया इस भावनीयं, अनन्तप्रदेशकस्याप्यसङ्ख्यातप्रदेशावगाढस्य, नवरं 'सङ्कमे अनन्तगुणा' इति
[३७२]
~ 491~