________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], .............--- उद्देशक: [-], ----------------दार [-], ---------------- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६-७]
ते सम्मठिमादयो भवखभावत एव न सम्यगदर्शनादिकं यथावत्प्रतिपत्तुं शक्यन्ते, ततो न तेषां निर्वाणसम्भवः, त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणगमनाभावः, अपि च-भुज-18 परिसा द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परतः, परपृथिवीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात् , तृतीयां या-18 वत्पक्षिणश्चतुर्थी चतुष्पदाः पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति,तन्नाधोगतिविषये मनो-13 वीर्यपरिणतिवैषम्यदर्शनादूर्ध्वगतावपि च तद्वैषम्यम् , आह च-"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् ।। गच्छन्ति च तियश्चस्तदधोगत्यूनताऽहेतुः ॥१॥" तथा च सति सिद्धं स्त्रीपुंसानामधोगतिवैषम्येऽपि निर्वाणं सम, यदप्युक्तम्-'अपि च यासां यादलब्धावित्यादि' तदप्यश्लीलं, वादविकुर्वणत्वादिलब्धिविरहेऽपि विशिष्टपूर्वगतश्रुताभावेऽपि माषतुषादीनां निःश्रेयससम्पदधिगमश्रवणात्, आह च-"वादविकुर्वणत्वादिलब्धिविरहे श्रुते कनीयसि च। जिनकल्पमनःपर्यवविरहेऽपि न सिद्धिविरहोऽस्ति॥१॥"अपि च-यदि वादादिलब्ध्यभाववनिःश्रेयसाभावोऽपि स्त्रीणामभविष्यत् ततस्तथैव सिद्धान्ते प्रत्यपादयिष्यत्, यथा जम्बूयुगादारात् केवलज्ञानाभावो, न च प्रतिपाद्यते कापि खीणां निर्वाणाभाव इति,तस्मादुपपद्यते स्त्रीणां निर्वाणमिति कृतं प्रसङ्गेन । तथा पुंल्लिङ्गे-शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः, एवं नपुंसकलिङ्गसिद्धाः, तथा खलिङ्गे-रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते खलिङ्गसिद्धाः,तथाऽन्यलिङ्गे-परित्राजकादिसम्बधिनि वल्कलकाषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो
दीप अनुक्रम
[१५-१६]
REaratammanmona
~ 47~