________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१०], -------------- उद्देशक: [-], -------------- दारं [-], -------------- मूलं [१५५-१५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [१५५
-१५६]
दीप अनुक्रम [३६२-३६३]
एकैक चतसपु दिक्ष द्वे द्वे विदिविति, द्वादश चाष्टभ्यो न द्विगुणानि न त्रिगुणानि च, किन्तु विशेषाधिकानि, | तेभ्योऽलोकस्य चरमखण्डेभ्यो लोकालोकस्य चरमाचरमखण्डानि समुदितानि विशेषाधिकानि, तथाहि-लोकस्य चरमखण्डानि प्रागुक्तपरिकल्पनया अष्टौ एकमचरमखण्ड मित्युभयमीलने नव, अलोकस्यापि चरमाचरमखण्डानि समुदितानि त्रयोदश, उभयेषामेकत्र मीलनेन द्वाविंशतिः, सा च द्वादशभ्यो न द्विगुना नापि त्रिगुणा किन्तु विशेषाधिकेति अलोकस्य चरमखण्डेभ्यो लोकालोकचरमाचरमखण्डानि समुदितानि विशेषाधिकानि । प्रदेशार्थताचिन्तायां सर्वस्तोका लोकस्य चरमान्तप्रदेशाः, अष्टखण्डसत्कानामेव प्रदेशानां भावात् , तेभ्योऽलोकस्य चरमान्तप्रदेशा विशेषाधिकाः, तेभ्योऽपि लोकस्य अचरमान्तप्रदेशा असङ्ख्येयगुणाः, क्षेत्रस्यातिप्रभूततया तत्प्रदेशानामप्यति-13 प्रभूतत्वात् , तेभ्योऽप्यलोकस्याचरमान्तप्रदेशा अनन्तगुणाः, क्षेत्रस्यानन्तगुणत्वात् , तेभ्योऽपि लोकस्य चरमान्तप्रदेशा अचरमान्तप्रदेशा अलोकस्यापि चरमान्तप्रदेशा अचरमान्तप्रदेशाः समुदिता विशेषाधिकाः, कथमिति चेत्, | उच्यते, इहालोकस्याचरमान्तप्रदेशराशी लोकस्य चरमाचरमान्तप्रदेशा अलोकस्य चरमान्तप्रदेशाश्च प्रक्षिप्यन्ते, तेच | सर्वसङ्ख्ययाऽप्यसङ्ख्येया(ऽसंख्यया)थानन्तराश्यपेक्षयाऽतिस्तोका इति प्रक्षेपेऽपि तेऽलोकस्याचरमान्तप्रदेशेभ्यो| विशेषाधिका एव । एतदनुसारेण द्रव्यार्थप्रदेशार्थचिन्तासूत्रमपि स्वयं परिभावनीयं, नवरं लोकालोकचरमाचरम-18 खण्डेभ्यो लोकस्य चरमान्तप्रदेशा असाहयेयगुणा इति, लोकस्य किल चरमाणि खण्डान्यष्टी, एकैकस्मिंश्च खण्ड-18
~ 467~