________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], .............--- उद्देशक: [-], ----------------दार [-], ---------------- मूलं [६,७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६-७]
celeceaeeksee
कणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमय शीतमिति विभाव्य धर्मार्थिना शिरसि बस्ने प्रक्षिप्ते तस्य सपरिणहता भवेत् , न चैतदिष्टं, तस्मान्न वस्त्रसंसर्गमात्रं परिग्रहः, किन्तु मूळ, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरण| मात्रतया तस्योपादानात् , न खलु ता वस्त्रमन्तरेणात्मानं रक्षयितुमीशते, नापि शीतकालादिषु व्यग्रदशायां खाध्यायादिक कतु, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुजाना न ताः परिग्रहवत्यः, अथोच्येत-सम्भवति नाम खीणामपि सम्यग्दर्शनादिकं रनत्रयं.परं न तत सम्भवमात्रेण मुक्तिपदप्रापकं भवति,किन्तु प्रकषेप्राप्तम् ,अन्यथा | दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तिः, सम्यग्रदर्शनादिरलत्रयप्रकर्षश्व स्त्रीणामसम्भवी, ततोन निवाणमिति, तदप्ययुक्तम् , स्त्रीषु रखत्रयप्रकर्षासम्भवे ग्राहकप्रमाणस्थाभावात् ,न खलु सकलदेशकालन्यात्या स्त्रीषु| रत्नत्रयप्रकोसम्भवग्राहकं प्रमाणं विज़म्भते, देशकालविप्रकृष्टेषु प्रत्यक्षस्थाप्रवृत्तेः, तदप्रवृत्ती चानुमानस्याप्यसम्भवात्, नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते, प्रत्युत सम्भवप्रतिपादकः स्थाने स्थानेऽस्ति,यथेदर्भव प्रस्तुतं सूत्रं, ततो न तासां रतत्रयप्रकर्षासम्भवः, अथ मन्येथाः-स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन सह रत्नत्रयप्रकर्षः, ततस्तदसम्भवोऽनुमीयते, तदयुक्तमुक्तं, युक्तिविरोधात् , तथाहि-रत्नत्रयप्रकर्षः स उच्यते यतोऽन नन्तरं मुक्तिपदप्राप्तिः, स चायोग्ययस्थाचरमसमयभावी, अयोग्यवस्था चास्माशामप्रत्यक्षा, ततः फर्थ विरोधगतिः, न हि अदृष्टेन सह विरोधः प्रतिपतुं शक्यते, मा प्रापत्पुरुषेष्वपि प्रसङ्गः, ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेना
दीप अनुक्रम
[१५-१६]
Directorary.com
~ 45~