SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [१४५] दीप अनुक्रम [३५२] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) पदं [६], उद्देशक: [-], ------ दारं [८], मूलं [१४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः यद्यस्मिन् भवे उदयमागतमवतिष्ठते तद् गतिजा तिशरीरपञ्चकादिव्यतिरिक्तं स्थितिनामावसेयमिति भावः, गत्यादीनां वर्जनं तेषां खपदेः 'गइनामनिहत्ताउए' इत्यादिभिरुपात्तत्वात् तेन सह निघत्तायुः स्थितिनामनिधत्तायुः ३, तथा अवगाहते यस्यां जीवः साऽवगाहना - शरीरं औदारिकादिः तस्य नाम - औदारिकादिशरीरनामकर्म अवगाहनानाम शेषं तथैव ४, 'पएसनामनिहत्ताउए' ति प्रदेशा:- कर्मपरमाणवः ते च प्रदेशाः संक्रमतोऽप्यनुभूयमानाः परिगृह्यन्ते तत्प्रधानं नाम प्रदेशनाम, किमुक्तं भवति ? - पद्यस्मिन् भवे प्रदेशतोऽनुभूयते तत्प्रदेशनामेति, अनेन विपाकोदयमप्राप्तमपि नाम परिगृहीतं, तेन प्रदेशनाम्ना सह निघत्तमायुः प्रदेशनामनिधत्तायुः ५, तथाऽनुभावो - विपाकः, स चेह प्रकर्षप्राप्तः परिगृह्यते तत्प्रधानं नाम अनुभावनाम - यद्यस्मिन् भवे तीत्रविपाकं नामकमनुभूयते त (य) था नारकायुषि अशुभवर्णगन्धरस स्पर्शोपघातानादेयदुःखरायशः कीर्त्त्या दिनामानि तदनुभावनाम तेन सह निघत्तमायुरनुभावनामनिषत्तायुः ६, अथ कस्माज्जात्यादिनाम कर्मभिरायुर्विशेष्यते १, उच्यते, आयुः कर्मप्राधान्यख्यापनार्थ, तथाहि नारकाद्यायुरुदये सति जात्यादिनामकर्मणामुदयो भवति नान्यथेति भवत्यायुषः प्रधानता इति, अथ जात्यादिनामविशिष्टमायुः कियद्भिराकर्षैर्वभातीति जिज्ञासुजीवादिदण्डकक्रमेण पृच्छति - 'जीवा णं भंते ! जातिनामनिहत्ताउयं कहहिं आगरिसेहिं पगरंति' इत्यादि, आकर्षो नाम तथाविधेन प्रयत्लेन कर्मपुद्गलोपादानं यथा गौः पानीयं पिचन्ती भयेन पुनः पुनराघोटयति एवं जीवोऽपि यदा तीत्रेणायुर्वन्धाध्यवसायेन जातिनामनिधत्तायुः अन्यद्वा बनाति Education Internationa For Pasta Use Only ~ 439~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy