________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [२६], -------------- मूलं [९०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [९०]
दीप अनुक्रम [२९४]
इहायुःकर्मबन्धकावन्धकानां पर्याप्तापर्याप्तानां सुप्तजाग्रतां समवहतासमवहतानां सातवेदकासातवेदकानां | इन्द्रियोपयुक्तनोइन्द्रियोपयुक्तानां साकारोपयुक्तानाकारोपयुक्तानां समुदायेनाल्पबहुत्वं वक्तव्यं, तत्र प्रत्येक तावद् ब्रूमः येन समुदायेन सुखेन तदवगम्यते, तत्र सर्व स्तोकाः आयुषो बन्धका अवन्धकाः सङ्ख्येयगुणाः, यतोऽ-18 नुभूयमानभवायुषि त्रिभागावशेषे पारभविकमायुर्जीवा बभन्ति त्रिभागत्रिभागाद्यवशेषे वा ततो द्वौ त्रिभागावबन्धकाल एकत्रिभागो बन्धकाल इति बन्धकेभ्योऽवन्धकाः सङ्ख्येयगुणाः । तथा सर्वस्तोका अपर्याप्तकाः पर्याप्तकाः सङ्घयेयगुणाः, एतच सूक्ष्मजीवानधिकृत्य वेदितव्यं, सूक्ष्मेषु हि बायो व्याघातो न भवति ततस्तद्भावाद् बहूनां निष्पत्तिः स्तोकानामेव चानिष्पत्तिः । तथा सर्वस्तोकाः सुप्ताः, जागराः सङ्ख्येयगुणाः, एतदपि सूक्ष्मानेकेन्द्रियान-1 अधिकृत्य येदितव्यं, यस्मादपर्यासाः सुप्ता एव लभ्यन्ते, पर्याप्सा जागरा अपि, [उक्तं च मूलटीकाया-"जम्हा अप-18 जत्ता सुत्ता लम्भंति, केइ अपजत्तगा जेसिं संखिज्जा समया अतीता ते य थोवा इयरेऽवि थोवगा घेव सेसा,ISI जागरा पजत्ता ते संखिजगुणा" इति ] जागराः पर्याप्तास्तेन सहयेयगुणा इति । तथा समवहताः सर्वस्तोकाः, यत इह समवहता मारणान्तिकसमुद्घातेन परिगृह्यन्ते, मारणान्तिकश्च समुद्घातो मरणकाले न शेषकालं, तत्रापि न 8 सर्वेषामिति सर्वस्तोकाः, तेभ्योऽसमवहता असलयेयगुणाः, जीवनकालस्यातिबहुत्यात् । तथा सर्वस्तोकाः सातवेदकाः, यत इह बहवः साधारणशरीरा अल्पे च प्रत्येकशरीरिणः, साधारणशरीराश्च बहवोऽसातवेदकाः खल्पाः सातवेदिनः
~315~