________________
आगम
(१५)
प्रत
सूत्रांक
[७९]
दीप अनुक्रम
[ २८३]
“प्रज्ञापना" - उपांगसूत्र - ४ ( मूलं + वृत्ति:)
पदं [३],
उद्देशक: [-], |--------------- दारं [२२],
मूलं [७९] मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रत्येकं द्रव्यक्षेत्र कालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयाः तथा अतीता अपीति सिद्धः पुद्गलास्तिकायादनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । उक्तं द्रव्यार्थतया परस्परमल्पबहुत्वम्, इदानीमेतेषामेव प्रदेशार्थ तया तदाह-धर्मास्तिकायोऽधर्मास्तिकाय एतौ द्वावपि परस्परं प्रदेशार्थतया तुल्यौ, उभयोरपि लोकाकाशप्रदेश परिमाणप्रदेशत्वात् शेषास्तिकायाद्धासमयापेक्षया च सर्वस्तोकौ, ततो जीवास्तिकायः प्रदेशार्थतया अनन्तगुणः, जीवास्तिकाये जीवानामनन्तत्वात् एकैकस्य च जीवस्य लोकाकाशप्रदेशपरिमाणप्रदेशत्वात् तस्मादपि पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः कथमिति चेत्, उच्यते, इह कर्मस्कन्धप्रदेशा अपि तावत् सर्वजीवप्रदेशेभ्योऽनन्तगुणाः, एकैकस्य जीव प्रदेशस्यानन्तानन्तैः कर्मपरमाणुभिरावेष्टितपरिवेष्टितत्वात् किं पुनः सकलपुद्गलास्तिकाय प्रदेशाः १, ततो भवति जीवास्तिकायात् पुद्गलास्तिकायः प्रदेशार्थतयाऽनन्तगुणः, तस्मादप्यद्धा समयः प्रदेशार्थतयाऽनन्तगुणः, एकैकस्य पुद्गलास्तिकाय प्रदेशस्य प्रागुक्तक्रमेण तत्तद्रव्यक्षेत्रकालभावविशेषसम्बन्धभावतोऽनन्तानामतीताद्धासमयानामनन्तानामनागतसमयानां भावात् तस्मादाकाशास्तिकायः प्रदेशार्थ तयाऽनन्तगुणः, अलोकस्य सर्वतोऽप्यनन्तताभावात् ॥ गतं प्रदेशार्थतयाऽल्पबहुत्वम् इदानीं प्रत्येकं द्रव्यार्थ प्रदेशार्थतयाऽल्पबहुत्वमाह - सर्वस्तोको धर्मास्तिकायो द्रव्यार्थतया एकत्वात्, प्रदेशार्थतया ऽसङ्ख्येयगुणः, लोकाकाशप्रदेश परिमाणप्रदेशात्मकत्वात् एवमधर्मास्तिकायसूत्रमपि भावनीयम्, आकाशास्तिकायो द्रव्यार्थतया सर्वस्तोकः, एकत्वात्, प्रदेशार्थतयाऽनन्तगुणः, अपरिमि
For Pale Only
~ 287 ~