________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], --------------- उद्देशक: [-], -------------- दारं [१], -------------- मूलं [५६]
अज्ञापनायाः मल- यवृत्ती.
॥११७॥
प्रत सूत्रांक [१६]
भ्रमरादयश्चतुरिन्द्रिया इति हेतोर्यनस्पत्यादिसूत्राणि चतुरिन्द्रियसूत्रपर्यन्तानि अप्कायिकसूत्रवद् भावनीयानि । अल्पनरयिकसूत्रे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिगविभागभाविनो नैरयिकाः, पुष्पापकीर्णनरकावासानां तत्राल्पत्वात् , बहूनां ||
बहुत्वपदे प्रायः सङ्खयेययोजनविस्तृतत्वाच, तेभ्यो दक्षिणदिग्विभागभाविनोऽसहयगुणाः, पुष्पावकीर्णनरकावासानां पृथ्व्याद्यतत्र बाहुल्यात, तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात् , कृष्णपाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच, तथा-18
ल्पबहुत्वं हि-द्विविधा जन्तवः, शुक्लपाक्षिकाः कृष्णपाक्षिकाच, तेषां लक्षणमिदं-येषां किश्चिदूनपुद्गलपरावर्धिमात्रसं-18 सारस्ते शुक्लपाक्षिकाः, अधिकतरसंसारभाजिनस्तु कृष्णपाक्षिकाः, उक्तं च-"जेसिमबडो पुग्गलपरियट्टो सेसओ य संसारो । ते सुकपक्खिया खलु अहिए पुण कण्हपक्खी उ ॥१॥" अत एव च स्तोकाः शुक्लपाक्षिकाः, अल्पसंसारिणां स्तोकत्वात् , बहवः कृष्णपाक्षिकाः, प्रभूतसंसारिणामतिप्रचुरत्वात्, कृष्णपाक्षिकाच प्राचुर्यण दक्षि-13 (णयां दिशि समुत्पद्यन्ते, न शेषासु दिक्षु, तथास्वाभाव्यात्, तच तथाखाभाव्यं पूर्वाचायरेवं युक्तिभिरुपबृंखते, तद्यथा-कृष्णपाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते, दीर्घतरसंसारमाजिनश्च बहुपापोदयाद् भवन्ति, बहुपापोदयाश्च क्रूरकर्माणः, क्रूरकर्माणश्च प्रायस्तथास्वाभाब्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते, न
दीप
अनुक्रम [२६०]
१ येषामपाधः पुद्गलपरावर्तः शेषकश्च संसारः । ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपक्षास्तु ॥ १ ॥
~238~