________________
आगम (१५)
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३], ------------ उद्देशक: [-], ---------- दारं [१], ----------- मूलं [१५] + गाथा:(१-२) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[५५]
गाथा:
नन्तरं जीवद्वारं, २३, ततः क्षेत्रद्वारं २४, ततो बन्धद्वारं २५, ततः पुद्गलद्वारं २६, ततो महादण्डकः २७, इति सर्वसशयया सप्तविंशतिः द्वाराणि । तत्र प्रथमं द्वारमभिधित्सुराहदिसाणुवाएणं सबथोवा जीवा पच्छिमेणं, पुरच्छिमेणं विसेसाहिया, दाहिणेणं विसेसाहिया, उत्तरेणं विसेसाहिया । (सू०५५)
इह दिशः प्रथमे आचाराख्ये अझे अनेकप्रकारा व्यावर्णिताः, तत्रेह क्षेत्रदिशः प्रतिपत्तव्याः, तासां नियतत्वात्, इतरासां च प्रायोऽनवस्थितत्वात् अनुपयोगित्वाच, क्षेत्रदिशां च प्रभवस्तिर्यग्लोकमध्यगतादष्टप्रदेशकाद्रुचकात् , यत उक्तम्-"अट्टपएसो रुयगो तिरियलोयस्स मज्झयारम्मि । एस पभवो दिसाणं एसेव भये अणुदिसाणं ॥१॥" इति, दिशामनुपातो दिगनुपातो-दिगनुसरणं तेन दिशोऽधिकृत्येति तात्पर्यार्थः, सर्वस्तोका जीवाः पश्चिमेन-पश्चिमायां दिशि, कथमिति चेत् ?, उच्यते, इदं खल्पबहुत्वं बादरानधिकृत्य द्रष्टव्यं, न सूक्ष्मान् , सूक्ष्मा-18॥ णां सर्वलोकापन्नानां प्रायः सर्वत्रापि समत्वात् , बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याकतया तेषां प्राप्यमाणत्वात् , ततो यत्र ते बहवस्तत्र बहुत्वं जीवानां, यत्र त्वल्पे तत्राल्पत्वं, वनस्पतयश्च तत्र बहवो यत्र प्रभूता आपः, 'जस्थ जलं तत्थ वर्ण' इति वचनात् तत्रावश्यं पनकसेवालादीनां भावातू, ते च पनकसेवालादयो बादरनामकर्मोदये वर्तमाना अपि अत्यन्तसूक्ष्मावगाहनत्वात् अतिप्रभूतपिण्डीभावाच सर्वत्र सन्तोऽपि १ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये । एष प्रभवो दिशामेष एव भवेद्विदिशाम् ॥ १ ॥
दीप अनुक्रम [२५९]
ITamaa
तृतीय-पदे (०१) "दिशा" द्वारम् आरब्ध:
~231~