________________
आगम
“प्रज्ञापना” – उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], ------------ उद्देशक: -, ---------- दारं [-], ----------- मूलं [१४] + गाथा:(१५०-१७०) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[५४]
याः मलय० वृत्ती.
गाथा:
आह-'बुद्धा' इति, अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवादिरूपं तत्त्वं बद्धवन्तो बुद्धाः, सर्वज्ञसर्वदर्शिखभा- २ स्थानवबोधरूपा इति भावः, एतेऽपि च संसारनिर्वाणोभयपरित्यागेन स्थितवन्तः कैथिदिष्यन्ते-"संसारे न च निर्वाणे, स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां, चिन्तारत्नाधिको महान् ॥१॥" इति वचनात् , ततस्तन्नि-M रासार्थमाह-पारगता' इति, पारं-पर्यन्तं संसारस्य प्रयोजनवातस्य वा गताः पारगताः, तथाभव्यत्याक्षिप्तसक-| लप्रयोजनसमाप्त्या निरवशेषकर्तव्यशक्तिविप्रमुक्ता इति भावः, इत्थंभूता अपि कैश्चिद् यदृच्छावादिभिरक्रमसिद्धत्वेनापि गीयन्ते, तथोक्तम्-"नकादिसंख्याक्रमतो, वित्तप्राप्तिर्नियोगतः । दरिद्रराज्यासिसमा, तद्वन्मुक्तिः कचिन्न | किम् ? ॥१॥" ततस्तन्मतव्यपोहाय 'परम्परागता' इति परम्परया-ज्ञानदर्शनचारित्ररूपया मिथ्यारष्टिसासादनसम्यमिथ्यादृष्टयअविरतसम्यग्रष्टिदेशविरतिप्रमत्ताप्रमत्तनिवृत्त्यनिवृत्तिबादरसंपरायसूक्ष्मसंपरायोपशान्तमोहक्षीण- | मोहसयोगिकेवल्ययोगिकेवलिगुणस्थानभेदभिन्नया गताः परम्परागताः, एते च कैश्चित् तत्त्वतोऽनुन्मुक्तकमेकवचा अभ्युपगम्यन्ते 'तीर्थनिकारदर्शनादिहागच्छन्ति' इति वचनतः पुनः संसारावतरणाभ्युपगमात्, अतस्तन्म-IKI
॥११२॥ तापाकरणार्थमाह-'उन्मुक्तकर्मकवचाः' उत्-प्राबल्येनापुनर्भवरूपतया मुक्तं-परित्यक्तं कर्म कवचमिव कर्मकवचं यैस्ते उन्मुक्तकर्मकवचाः, अत एवाजराः शरीराभावतो जरसोऽभावात् अमरा अशरीरत्वादेव प्राणत्यागासंभवात् ,
दीप अनुक्रम [२३५-२५६]
Januarte
~ 228~