________________
आगम
(१५)
प्रत
सूत्रांक
[ ५४ ]
+
गाथाः
दीप
अनुक्रम
[२३५
-२५६]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [-], मूलं [ ५४ ] + गाथा: (१५०-१७०) मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [२],
दारं [-],
संरिउमारढो, रन्ना विसजिओ, तत्तो रन्निगा पुच्छंति — 'केरिसं नयरंति' १, सो वियाणंतोऽवि तत्थोवमाभावा न सकइ नयरगुणे परिकहेउँ। एस दिडंतो, अयमर्थोपनयः - 'इय सिद्धाणं' इत्यादि, इत्येवं सिद्धानां सौख्यमनुपमं वर्तते, किमिति ?, तत आह— यतो नास्ति तस्योपम्यं, तथाऽपि बालजनप्रतिपत्तये किञ्चिद् विशेषेण 'इतो' इति आर्पत्वाद् अस्येत्यर्थः, सादृश्यमिदं वक्ष्यमाणं शृणुत-- 'जह सन्च' इत्यादि, यथेत्युदाहरणोपदर्शनार्थः, भुज्यते इति भोजनं 'सर्वकामगुणितं सकलसौन्दर्यसंस्कृतं कोऽपि पुरुषो भुक्त्वा क्षुत्तृद्र विप्रमुक्तः सन् यथा अमूततृप्तस्तथा तिष्ठति, 'इय' इत्यादि, एवं निर्वाणं - मोक्षमुपगताः सिद्धाः सर्वकालं - साद्यपर्यवसितं कालं तृप्ताः - सर्वथीत्सुक्य विनिवृत्तिभावतः परम संतोषमधिगता अतुलम् - अनन्यसदृशमुपमाऽतीतत्वात् शाश्वतं प्रतिपाताभावात् अव्याबाधं लेशतोऽपि व्यावाधाया असंभवात् सुखं प्राप्ता अत एव सुखिनः तिष्ठन्तीति ॥ एतदेव सविशेषतरं भावयति'सिद्धति य' इत्यादि, सितं - बद्धमष्टप्रकारं कर्म ध्यातं भस्मीकृतं यैस्ते सिद्धाः “पृषोदरादयः" इति रूपनिष्पत्तिः, | निर्दग्धानेकभव कर्मेन्धना इत्यर्थः, ते च सामान्यतः कर्मादिसिद्धा अपि भवन्ति, यत उक्तम्- 'कम्मे सिप्पे य विजाए, मंते जोगे य आगमे । अत्थजत्ताअभिप्पाए, तवे कम्मक्खए इय ॥ १ ॥ " ततः कर्मादिसिद्धव्यपोहाय
१ स्मर्तुमारब्धः, राज्ञा विसृष्टः, तत आरण्यकाः पृच्छन्ति कीदृशं नगरमिति, स विजानन्नपि वत्रोपमाभावाद् न शक्नोति नगरगुणान् परिकथयितुं एष दृष्टान्तः ॥ २ कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे । अर्थे यात्रायामभिप्राये तपसि कर्मक्षये इति ॥ १ ॥
For Parts Only
~ 227 ~