________________
आगम
(१५)
प्रत सूत्रांक
[ ५४ ]
+
गाथाः
दीप
अनुक्रम
[२३५
-२५६]
“प्रज्ञापना” – उपांगसूत्र - ४ ( मूलं + वृत्ति:)
दारं [-],
पदं [२],
उद्देशक: [-], मूलं [ ५४ ] + गाथा: (१५०-१७०) मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [१५] उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
प्रज्ञापना
याः मल
॥१११ ॥
वृद्धितारतम्येन तावदसावाहादो विशिष्यते यावदनन्तगुणवृद्ध्या निरतिशय निष्ठामुपगतः सोऽयमत्यन्तोपमातीतका न्तौत्सुक्यविनिवृत्तिरूपस्तिमिततमकल्पः चरमाहादः सदा सिद्धानां तस्माच्चारतः प्रथमाच्चोर्ध्वमपान्तरालवर्तिनो ये य० वृत्ती. ४ गुणास्तारतम्येनाहादविशेषरूपास्ते सर्वाकाशप्रदेशेभ्योऽप्यतिभूयांसः, ततः किलोक्तं- 'सबागासे न माइज्जा' इति, अन्यथा यत् सर्वाकाशे न माति तत् कथमेकस्मिन् सिद्धे मायादू ? इति पूर्वसूरि संप्रदायः ॥ साम्प्रतमस्य निरुपमतां प्रतिपादयति- 'जह नाम' इत्यादि, यथा नाम कश्चिद् म्लेच्छो नगरगुणान् गृहनिवासादीन् बहुविधान् - अनेकप्रका| रान् विजानन् अरण्यगतः सन् अन्यम्लेच्छेभ्यो न शक्नोति परिकथयितुं, कस्मान्न शक्नोति ? इत्यत आह-उपमायां तत्रासत्यां "निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्" इति न्यायाद् हेतौ सप्तमी, तत उपमांया अभा वादिति द्रष्टव्यं, एप गाथाऽक्षरार्थः, भावार्थः कथानकादवसेयः, तथेदं-- एगो महारन्नवासी मिच्छो रने चिट्ठति, इत्तो य एगो राया आसेण अवहरितो तं अडविं पवेसिओ तेण दिट्ठो, सकारिऊण जणवयं नीतो, रन्नावि सो नगरं नीओ, पच्छा उत्रनारिति गाढमुपचरितो, जहा राया तहा चिट्ठा, धवलघराइभोगेण विभासा, कालेण रनं
१ एको महारण्यवासी म्लेच्छोऽरण्ये तिष्ठति, इतञ्च एको राजा अश्वेनापहृतस्तामटवीं प्रवेशितः तेन दृष्टः, सत्कार्य जनपदं नीतः, राज्ञाऽपि स नगरं नीतः, पश्चादुपकारीति गाढमुपचरितो, यथा राजा तथा तिष्ठति, धवलगृहादिभोगेन विभाषा, कालेन अरण्यं
Internationa
For Parts Only
~ 226~
२ स्थानपदे सिजाधिका
रः सू. ५४
॥१११॥