________________
आगम
(१५)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम [१२]
Educator
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
पदं [१].
उद्देशक: [-],
दारं [-], ------
मूलं [३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] “प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
परिणामपरिणतानां तत्परिणामोपष्टम्भको मूर्त्तोऽसंख्यातप्रदेशसंघातात्मकोऽधर्मास्तिकायः 'अधर्मास्तिकायस्य देश' इत्यादि पूर्ववत् । तथा 'आङि' ति मर्यादया खस्वभावापरित्यागरूपया काशन्ते-खरूपेण प्रतिभासन्ते अस्मिन् व्यवस्थिताः पदार्था इत्याकाशम्, यदा त्वभिविधावाङ् तदा 'आङिति सर्वभावाभिव्याप्या काशते इत्याकाशम्, अस्तयः| प्रदेशास्तेषां कायोऽस्तिकायः आकाशं च तदस्तिकायश्चाकाशास्तिकायः, 'आकाशास्तिकायस्य देश' इत्यादि पूर्ववत्, नवरं प्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात् । 'अद्धेति' कालस्याख्या, अद्धा चासौ समयश्राद्धासमयः, अथवाऽद्धायाः समयो निर्विभागो भागः, अयं च एक एव वर्त्तमानः परमार्थः सन्, नातीता नानागताः समयाः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वेनासश्वात्, ततः कायत्वाभाव इति देशप्रदेश कल्पनाविरहः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति ततः समुदय समित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इति द्रष्टव्यम् । तथा अमीषामित्थं क्रमोपन्यासे किं प्रयोजनम् १, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम्, आदौ धर्मशब्दान्वितत्वात्, पदार्थप्ररूपणा सम्प्रति प्रथमत उत्क्षिता वर्त्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानम्, धर्मास्तिकायप्रतिपश्चभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्थ, द्वयोरपि चानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्थ, ततः | पुनरजीव साधर्म्यादद्धासमयस्य, अथवेह धर्माधर्मास्तिकायौ विभू न भवतः, तद्विभुत्वे तत्सामर्थ्यतो जीवपुद्गलाना| मस्स्वलितप्रचारप्रवृत्तौ लोकालोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत्र तत्र प्रदेशे सूत्रे साक्षादर्शनात्,
For Parts Only
~ 21~
Sundary or