SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [१], ---------------- उद्देशक: [-], ---------------- दारं [-], ----- मूलं [३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत प्रज्ञापनायाः मलयवृत्ती. सूत्रांक (३) दीप अनुक्रम [१२] प्रज्ञप्ता, अरूप्यजीवानां दशविधत्वात् तत्प्ररूपणाऽपि दशविधोक्ता, तदेव दशविधत्वं दर्शयति-तंजहे' त्यादि, तद्य ६, घ १ प्रज्ञापथेति वक्ष्यमाणभेदकथनोद्योतनार्थः, 'तद्'दशविधत्वम् , यदिवा 'तदि'त्यव्ययं सर्वलिङ्गवचनेषु सा दशविधाऽरूप्य नापदे अजीवप्रज्ञापना यथा भवति तथा दर्श्यते-'धम्मत्यिकाए'त्ति जीवानां पुद्गलानां च खभावत एव गतिपरिणामपरि-19 रूप्यजीणतानां तत्वभावधरणात्-तत्वभावपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां काय:-सवातः, 'गण काए य निकाए खन्धे वग्गे तहेव रासी य' इतिवचनात् ,अस्तिकायः प्रदेशसङ्घात इत्यर्थः, धर्मश्चासौ अस्तिकायश्च धर्मास्तिकायः, अनेन (सू. ३) च सकलमेव धर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवी च नामावयवानां तथारूपसङ्घातपरिणामविशेष एव, न पुनरवयवद्रव्येभ्यः पृथगोन्तरं द्रव्यम्, तथाऽनुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम, उक्तं चान्यैरपि-'तन्वादिव्यतिरेकेण, न पटाद्युपलम्भनम् । तन्त्वादयो विशिष्टा हि, पटादिव्यपदेशिनः ॥१॥" कृतं प्रसङ्गेन, अन्यत्र चिन्तितत्वादेतद्वादस्य, तथा 'धर्मास्तिकायस्य देश' इति तस्यैव धर्मास्तिकायस्य बुद्धिविकल्पितो धादिप्रदेशात्मको विभागः, 'धम्मत्थिकायस्स पदेसा' इति प्रकृष्टा देशाः प्रदेशाः-निर्विभागा भागा इति भावः, ते चासङ्ख्ययाः, लोकाकाशप्रदेशप्रमाणत्वात्। तेषाम् , अत एव बहुवचनम् , धर्मास्तिकायप्रतिपक्षभूतोऽधर्मास्तिकायः, किमुक्तं भवति ?-जीवपुद्गलानां स्थिति| १ गणः कायो निकायः स्कन्धो वर्गः तथैव राशिश्च । Seeseseee अरूपिअजीवस्य दश-भेदा: ~ 20~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy