________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
प्रज्ञापनाया:मलयवृत्ती.
सूत्रांक
[३९]
दीप
स्थिताः ये च स्वस्थानानुगते तिर्यग्लोके प्रविष्टास्ते एव बादरापर्याप्सतेजःकायिका व्यपदिश्यन्ते न शेषाः कपाटापान्तरालव्यवस्थिताः, विषमस्थानवर्तित्वात् , तेन येऽद्यापि कपाटद्वयं न प्रविशन्ति नापि तिर्यग्लोकं ते किल पूर्व- पदे - भवावस्था एवेति न गण्यन्ते, उक्तं च-"पणेयाललक्खपिडुला दुन्नि कवाडा य छहिसिं पुट्ठा । लोगन्ते तेसितो जे ब्यतेजः तेऊ ते उ धिप्पन्ति ॥१॥" तत उक्तं-'उववाएणं दोसु उहकवाडेसु तिरियलोयतट्टे य' इति, स्थापना
स्थानानि तदेवमिदं सूत्रं व्यवहारनयप्रदर्शनेन व्याख्यातं, तथासंप्रदायात, युक्तं चैतत् "विचित्रा सूत्राणां गतिः"_-_s इति वचनादिति । 'समुग्घाएणं सबलोए' इति, इह द्वयोः कपाटयोर्यथोक्तखरूपयोर्यान्यपान्तरालानि तेषु । ये सूक्ष्मपृथिवीकायिकादयो बादरापर्याप्ततेजःकायिकेषुत्पद्यमाना मारणान्तिकसमुद्घातेन समवहताः ते किल विष्कम्भवाहल्याभ्यां शरीरप्रमाणमात्रानायामत उत्कर्षतो लोकान्तं यावदात्मप्रदेशान् विक्षिपन्ति, तथा चावगाहनासंस्थानपदे वक्ष्यते-"पुढवीकाइअस्स णं भंते ! मारणंतियसमुग्घाएणं समोदयस्स तेयासरीरस्स के महालिया सरीरोगाहणा प०१, गोयमा ! सरीरपमाणमेचविखंभबाहल्लेणं आयामेणं जहन्नेणं अंगुलस्स असंखेजहभागे उक्कोसेणं लोगंतो" इति, ततस्ते सूक्ष्मपृथिवीकायिकादय उत्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डा अपान्तरालगतौ वर्त-11॥७६ माना बादरापर्याप्ततेजाकायिकायुर्वेदनाद् लन्धबादरापर्याप्ततेजःकायिकव्यपदेशाः समुद्घातगता एवापान्तराल
१ पचचत्वारिंशलक्षपृथू द्वौ कपाटौ च षटुसु दिक्षु स्पृष्टौ । लोकान्तान तयोरन्तर्वे तेज:कायिकासे तु गृह्यन्ते ॥१॥
अनुक्रम [१९२]
Sarasitaram.org
~156~