________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२], --------------- उद्देशक: [-], ------------- दारं [-1, --------------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[३९]
दोषः, 'गोयमा' इति लोकप्रथितमहाविशिष्टगोत्राभिधायकोऽयमामणध्वनिः,हे गौतमगोत्रेति भावार्थः । 'सट्ठा-18॥ गणं' इति खस्थानं यत्रासते बादरपृथ्वीकायिकाः पर्यासाः आसीनाश्च वर्णादिविभागेनादेष्टुं शक्यन्ते तत्वस्थान-18 मिति भावः, स्वस्थानग्रहणमुपपातसमुदूपातस्थाननिवृत्त्यर्थ, तेन खस्थानेन खस्थानमङ्गीकृत्येति भावः। अष्टासु |पृथ्वीपु सर्वत्र चादरपृथ्वीकायिकानां पर्याप्तानां स्थानानीति योगः, ता एव अष्टौ पृथ्वी मग्राहमाह-'तंजहा' इत्यादि, रत्नप्रभायां यावदष्टम्यामीपत्प्राग्भारायाम् , तथाऽधोलोके पातालेषु पातालकलशेपु-वलयामुखप्रभृतिषु भवनेषु-भवनपतिनिकायावासरूपेषु, भवनप्रस्तटेषु-भवनभूमिकारूपेषु, इह भवनग्रहणेन भवनानामेव केवलानां ग्रहणं, भवनप्रस्तटग्रहणेन तु भवनानामपान्तरालस्यापि । तथा नरकेपु-प्रकीर्णकरूपेषु नरकावासेपु, नरकावलिकासु-आवलिकाव्यवस्थितेषु नरकावासेषु, नरकप्रस्तटेपु-नरकभूमिरूपेषु, अत्रापि नरकनरकावलिकाग्रहणेन केवला एव नरकावासाः परिगृह्यन्ते, नरकप्रस्तटग्रहणेन तु नरकापान्तरालमपि । ऊ लोके कल्पेषु-सौधर्मिकादिकल्पेषु, अनेन द्वादशदेवलोकपरिग्रहः, विमानेषु-अवेयकसंबन्धिषु प्रकीर्णकरूपेषु, विमानावलिकासु-आवलिकाप्रविष्टेषु । वयकादिविमानेपु, विमानप्रस्तटेषु विमानभूमिकारूपेषु, अत्रापि प्रस्तटग्रहणं विमानापान्तरालभाविनामपि यथासंभवभाविनां पादरपर्याप्तपृथ्वीकायिकानां स्थानपरिग्रहार्थ, तथा तिर्यग्लोके टङ्केषु-छिन्नटङ्केषु कूटेपु-सिद्धायतनकूटप्रभृतिषु शैलेषु-शिखरहीनपर्वतेषु शिखरिषु-शिखरयुक्केषु पर्वतेषु प्राग्भारेषु-ईपत्कुलेषु विजयेपु-कच्छादिषु
दीप
अनुक्रम [१९२]
म.१३ REmbriend
albumtaram.org
~ 149~