________________
आगम (१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३४९]
गाथा
| भवतीति !, तत्कारणस्य सक्लेशस्थाभावात् , रागादिवेदनीयानां हि कर्मणामुत्पत्ती रागादिपरिणतिरूपः सङ्क्लेशः, 'जं वेयइ से बंधई' इति, न च रागादिवेदनीयकर्मविनिर्मुक्तस्य तथाभूतं सङ्क्लेशोत्थानमस्ति, ततस्तदभावाद्रागादिवेदनीयकाभावः, तदभावाच भूयो रागादीनामभावः, तथा च रागादीनामेव पुनरुत्पत्तिचिन्तायां धर्मसन-IN हण्यामुक्तम्-"खीणा य ते न होंती पुणरवि सहकारिकारणाभावा । नहि होइ संकिलेसो तेहिं विउत्तस्स। जीवस्स ॥१॥ तयभावा न य बंधो तप्पाउग्गस्स होइ कम्मस्स । तदभावे तदभावो सबद्धं चेव विन्नेओ ॥२॥" इति, ततो रागादीनामभावादायुःप्रभृतीनां कर्मणां पुनरुत्पादाभावस्तदभावाच न भूयो जन्मोत्पत्तिः, अत एवो|क्तमन्यत्रापि-"दग्धे वीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥" | उपसंहारमाह-'से एएणद्वेण मित्यादि, एतदेव सिद्धस्वरूपं परममङ्गलभूतं शाखस्स शिष्यप्रशिष्यादिवंशगतत्वेना| व्यवच्छित्तिर्भूयादित्यन्तमङ्गलत्वेनोपसंहारव्याजत आह-निच्छिपणे त्यादि, निस्तीर्ण सर्वदुःखं यैस्ते तथा, सकल| सांसारिकदुःखपारगता इत्यर्थः, कुत इत्याह-जातिजरामरणवन्धनविषमुक्ताः' जातिश्च जरा च मरणं च बन्ध-|
नानि च-ज्ञानावरणीयादीनि कर्माणि तैर्विप्रमुक्ताः, अत्र हेती प्रथमा, यतो जातिजरामरणबन्धनविप्रमुक्ताः ततो |निस्तीर्णसर्वदुःखाः, ते इत्थंभूताः परमखास्थ्यरूपं 'शाश्वतं' शश्वद्भावि 'अव्यावा,' बाधारहितं, रागादयो हिन |तद्वाधितुं प्रभविष्णयो न च तेषां ते सन्तीत्सनन्तरमेव भावितं, सुखं प्राप्ताः, अत एव सुखिनः सन्तस्तिष्ठन्ति ॥ ।
दीप अनुक्रम
esesesentineseseseeeees
020202030202002020209002012
[६२१
-६२२]
अत्र पद (३६) "समुद्घात:" परिसमाप्तम्
~ 1225~