________________
आगम
(१५)
प्रत
सूत्रांक
[ ३४४
३४७]
+
गाथा:
दीप
अनुक्रम
[६१४
-६१९]
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः )
पदं [ ३६ ],
दारं [-1,
----------- उद्देशकः [-], मूलं [ ३४४ ३४७] + गाथा: मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
Educator
| प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं, एवं च न कश्चिद्दोषः नन्वेवमपि दीर्घकालभोग्यतथा तद्वेदनीयादिकं कर्मोपचितं अथ च परिणामविशेषादुपक्रमेणारादेव तदनुभवति ततः कथं न कृतनाशदोषापत्तिः ?, तदप्यसम्यक्, बन्धकाले तथाविधाध्यवसायवशादादावुपक्रमयोग्यस्यैव तेन बन्धनात् अपिच-जिनक्चनप्रामाण्यादपि वेदनीयादिकर्मणामुपक्रमो मन्तव्यः, यदाह भाष्यकृत् - "उदय कृत्रयक्खओवसमोवसमा जं च कम्मुषो भणिया । दवाई पंचगं पर जुत्तमुवकमणमेत्तोषि ॥ १ ॥” [ उदयक्षयक्षयोपशमोपशमा यस्माच कर्मणो भणिताः । द्रव्यादिपञ्चकं प्रति युक्तमुपक्रमणमितोऽपि ॥ १ ॥ ] न चैवं मोक्षोपक्रमहेतुः कश्चिदस्ति येन तत्रानाश्वासप्रसङ्गः, यथा च न मोक्षोपक्रमहेतुः कश्चिदस्ति तथाऽन्तिमसूत्रे भावयिष्यते, ततो यदुक्तं 'वेदनीयादिवच कृतस्यापि कर्मक्षयस्से' यादि न तत्सम्यगुपपन्नमिति स्थितं, अपर आह-ननु यदा वेदनीयादिकमतिप्रभूतं सर्वस्तोकं चायुस्तदा समधिकवेदनीयादिसमुद्घातार्थ समुद्घातमारभतां वेदनीयादेः सोपक्रमत्वात् यदा त्वधिकमायुः सर्वस्तोकं च वेदनीयादिकं तदा का वार्त्ता १, न खल्वायुषः समधिकस्य समुद्घाताय समुद्घातः कल्प्यते, चरमशरीरिणामायुषो निरुपक्रमत्वात् 'चरमसरीरा य freemeा' इति वचनात्, तदयुक्तं, एवंविधभावस्य कदाचनाप्यभावात्, तथाहि सर्वदेव वेदनीयाद्येवायुषः सकाशादधिकस्थितिकं भवति, न तु कदाचिदपि वेदनीयादेरायुः, अथैवंविधो नियमः कुतो लभ्यते १, उच्यते, परिणामखाभान्यात्, तथाहि-- इत्थंभूत एवात्मनः परिणामो येनास्यायुर्वेदनीयादेः समं भवति
For Pale Only
~1209~
antrary orp