________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३३६]
दीप अनुक्रम [६०६]
वेमाणियाण मिति नैरयिकाणां चतुर्विंशतिदण्डकक्रमेण चिन्ता कृता एवमसुरकुमारदिीनामपि प्रत्येक चतुर्विशतिदण्डकक्रमेण तावद्वक्तव्या यावद्वैमानिकानां, केवलं यत्रास्ति विशेषस्तं दर्शयति-'नवर'मित्यादि, नवरं वनस्पतिकायिकानां मनुष्यत्वचिन्तायामतीताः पुरस्कृताश्च प्रत्येकमनन्ता वक्तव्याः, अनन्तानां पूर्वमधिगतचतुर्दशपूर्वाणां यथायोगमेकशो| द्विात्रि कृताहारकसमुद्घातानांवनस्पतिष्ववस्थानात् अनन्तरमेव वनस्पतिकायादुवृत्यानन्तर्येण पारम्पर्येण वा मानुपत्यमवाप्य यथायोगमेको द्विः त्रिचतुर्वाऽऽहारकसमुद्घातानां निर्वयिष्यमाणत्वात् , मनुष्याणां मनुष्यत्वावस्थाया-18 मतीताः पुरस्कृताश्च स्यात्सङ्ग्येयाः स्यादसङ्ख्येयाः,कथमिति चेत् ,उच्यते, ते हि प्रश्नसमयभाविनः उत्कर्षपदेऽपि सर्वस्तोकार, श्रेण्यसङ्ख्येयभागगतप्रदेशराशिप्रमाणत्वात् , ततो विवक्षितप्रश्नसमयभाविनां मध्ये कदाचिदसधेयाः-यथायोग प्रत्येकमेकशी द्विः त्रिश्चतुर्वा कृतकरिष्यमाणाहारकसमुद्घाताः प्राप्यन्ते, उपसंहारमाह-एव'मित्यादि, एवमुक्तेन प्रकारेण एते आहारकसमुद्घातविषयाश्चतुर्विंशतिश्चतुर्विशतिसङ्ख्याका दण्डका वक्तव्याः, सम्प्रति केवलिसमुद्घातं चिन्तयति-'नेरइयाण मित्यादि, केवलिसमुद्घातोऽपि मनुष्यत्वावस्थायां भवति, न शेषाखवस्थासु, न च कृतकेवलिसमुद्घातः संसारं पर्यटति, केवलिसमुद्घातानन्तरमन्तर्मुहूत्तैनावश्यं निःश्रेयसपदाधिगमात्, ततो नारकाणां मनुष्यत्ववर्जासु शेषाखवस्थाखतीताः पुरस्कृताश्च केवलिसमुद्घाताः प्रतिषेद्धव्याः, मनुष्यत्वावस्थायामप्यतीताः प्रतिषेव्याः, कृतकेवलिसमुद्घातानां नरके गमनाभावात् , भाविनश्च भविष्यन्ति, प्रश्नसमयभाविनां मध्ये बहूनामसङ्ख्ये
~1157~