SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३३३] दीप अनुक्रम [६०३] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) दारं [-], मूलं [३३३] उद्देशक: [-] .. आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः पदं [ ३६ ], मुनि दीपरत्नसागरेण संकलित.. कस्मिँश्च नैरयिकस्य भवे जघन्यपदेऽपि सङ्ख्येयानां वेदनासमुद्घातानां भावात् कियन्तः पुरस्कृताः १, स्यात् सन्ति स्यान्न सन्ति, कस्यचित्सन्ति कस्यचिन्न सन्ति इति भावः, अत्रापीयं भावना - योऽसुरकुमारभवादुदृत्तो न नरकं यास्यति किन्त्वनन्तरं परम्परया वा मनुजभवं प्राप्यं सेत्स्यति तस्य नैरयिकत्वावस्थाभाविनः पुरस्कृता वेदनासमुद्घाता न सन्ति नैरयिकत्वावस्थाया एवासम्भवात्, यस्तु तद्भवादूर्ध्वं पारम्पर्येण नरकं गमिष्यति तस्य सन्ति, तत्रापि कस्यचित्सङ्ख्येयाः कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, तत्र यः सकृजघन्यस्थितिषु मध्ये समुत्पत्स्यते तस्य जघन्यपदेऽपि सङ्ख्याः, सर्वजघन्यस्थितावपि नरकेषु सङ्ख्येयानां वेदनासमुद्घातानां भावात् वेदनाबहुलत्वान्नारकाणां, असकृद् जघन्यस्थितिषु दीर्घस्थितिषु सकृदसकृद्वा गमने असङ्ख्येयाः, अनन्तशो नरकगमने अनन्ताः, तथा एकैकस्य भदन्त । असुरकुमारस्यासुरकुमारत्वे स्थितस्य सतः सकलमतीतकालमधिकृत्य कियन्तो वेदनासमुद्घाता अतीताः १, भगवानाह - गौतम । अनन्ताः, पूर्वमप्यनन्तशस्तद्भावस्य प्राप्तत्वात् प्रतिभवं च वेदनासमुद्घातस्य प्रायो भावात्, पुरस्कृत चिन्तायां कस्यचित् सन्ति कस्यचिन्न सन्ति, यस्य प्रश्नसमयादूर्ध्वमसुरकुमारत्वेऽपि वर्त्तमानस्य न भावी वेदनासमुद्घातो नापि तत उद्धृत्य भूयोऽप्यसुरक्कुमारत्वं प्राप्स्यति तस्य न सन्ति, यस्तु सकृत् प्राप्स्यति तस्य जधन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः सङ्ख्या असङ्ख्येया अनन्ता वा सङ्ख्येयान् वारान् उत्पत्स्यमानस्य सङ्ख्येयाः असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, एवं चतुर्विंशतिदण्डकक्रमेण नाग For Parts Only ~ 1141~ hary
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy