________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३६], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३३२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३३२]
Sectrsesesesesesenterseksees
भदन्त ! नैरयिकस्य निरवधिकमतीत कालमधिकृत्य कियन्तः केवलिसमुद्घाता अतीताः?, भगवानाह-'नत्यि'त्ति नास्त्यतीत एकोऽपि केवलिसमुद्घातः, केवलिसमुद्घातानन्तरं घन्तर्मुहूर्तेन नियमतो जीवाः परमपदमावते, ततो यद्यभविष्यत्केवलिसमुद्घातस्तहि नरकमेव नागमिष्यद्, अथ च सम्प्रति नरकगामिनो वर्त्तन्ते तस्मानास्त्येकस्याप्यतीतः केवलिसमुद्घातः, 'केवइया पुरेक्खड'त्ति कियन्तः पुरस्कृताः केवलिसमुद्घाता इति प्रश्नः, भगवानाह'गोतमा! कस्सइ अस्थि कस्सइ नत्यि'त्ति, इह केवलिसमुद्घात एकस्य प्राणिन आकालमेक एव भवति, न द्वित्राः, ततोऽस्तीति निपातोऽत्र एकवचनान्तो वेदितव्यः, ततश्चायमर्थः कस्यापि केवलिसमुद्घातः पुरस्कृतोऽस्ति, यो दीर्घतरेणापि कालेन मुक्तिपदप्रात्ययसरे विषमस्थितिकर्मा इति, कस्यापि नास्ति, यो मुक्तिपदमवाप्तुमयोग्यो योग्यो | वा केवलिसमुद्घातमन्तरेणैव मुक्तिपदं गन्ता, तथा च वक्ष्यति-"अगंतूण समुग्धायमणंता केवलीजिणा । जरम-18 रणविप्पमुका, सिद्धिं वरगई गया ॥१॥" [अगत्वा समुद्घातमनन्ताः केवलिनो जिनाः । जरामरणविप्रमुक्ताः सिद्धिं वरगतिं गताः॥१॥] इति, इह अस्तीति निपातः सर्वलिङ्गवचन इत्यविदितसिद्धान्तस्य बहुत्वाशङ्कापि कस्यचित् स्यात् ततस्तदपनोदार्थमाह-'जस्स अत्थि' एको यस्यास्ति पुरस्कृतः केवलिसमुद्रातस्तस्य एको, भूयः संसाराभावात्, ‘एवं जाव चेमाणियस्स'त्ति एवं-नैरयिकगताभिलापप्रकारेण चतुर्विशतिदण्डकक्रममनुसृत्य तावद्/% वक्तव्यं यावद्वैमानिकस्य सूत्रं, तच्चेदम्-'एगमेगस्स णं भंते ! वेमाणियस्स केवइया केवलिसमुग्धाया अतीता ?,
दीप
अनुक्रम [६०१]
SARERatininistrational
~1133~