________________
आगम
(१५)
प्रत
सूत्रांक
[३२८]
गाथा:
दीप
अनुक्रम
[५९४
-५९६]
प्रज्ञापनाबाः मलय० वृत्ती.
1144511
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्ति:)
दारं [-],
मूलं [३२८] + गाथा:
पदं [३५],
उद्देशक: [-],
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
कृतिको देवो दानवो वा वचनामृतैः सिञ्चति तदा मनसि सातं शरीरे तु क्षेत्रानुभावतोऽसातं यदिवा मनस्येव तहर्शनतः तद्वचनश्रवणतश्च सातं पश्चात्तापानुभवनतस्त्वसातमिति तदा सातासातवेदनामनुभवन्ति, अत्रापि तावन्तं विवक्षितकालमेकं विवक्षित्वा सातासातानुभवो युगपत् प्रतिपादितः, परमार्थतस्तु क्रमेणैव च वेदितव्य इति, 'एव'मित्यादि, एवं नैरयिकोक्तप्रकारेण सर्वे जीवास्तावद्वक्तव्या यावद्वैमानिकाः, तत्र पृथिव्यादयो यावन्नाद्याप्युपद्रवः सन्निपतति तावत् सात वेदनां वेदयन्ते उपद्रवसम्पाते त्वसातयेदनामवयवभेदेनोपद्रव सम्पातभावे सातासात वेदनां, व्यन्तरज्योतिष्कवैमानिका देवाः सुखमनुभवन्तः सातवेदनां च्यवनादिकाले त्वसात वेदनां परविभूतिदर्शनतो मात्सर्यानुभवे स्ववलभदेवीपरिष्वङ्गाद्यनुभवे च युगपज्जायमाने सातासात वेदनां वेदयन्ते इति । भूयः प्रकारान्तरेण एतामेव प्रतिपादयन् प्रश्ननिर्वचनसूत्रे आह- 'कइविहा णं भंते!' इत्यादि, या वेदना नैकान्तेन दुःखा भणितुं शक्यते सुखस्यापि भावात् नापि सुखा दुःखस्यापि भावात् सा अदुःखसुखा सुखदुःखात्मिका इत्यर्थः, अथ सातासातयोः सुखदुःखयोश्च परस्परं कः प्रतिविशेषः ?, उच्यते, ये क्रमेणोदयप्रासवेदनीय कर्मपुद्गलानुभवतः सातासाते ते सातासात उच्यते, ये पुनः परोदीर्यमाणवेदनारूपे सातासाते ते सुखदुःखे इति एतामेव चतुर्विंशतिदण्डक क्रमेण चिन्तयति- 'नेरइया ण' मित्यादि || वेदनामेव प्रकारान्तरेण चिन्तयन्नाह -
कत्तिविहा णं भंते ! वेदणा पं० १, गो० ! दुविहा वेयणा पं० तं०-अम्भोवगमिया य उनकमिया य, नेरइया णं भंते !
Ja Eucation International
For Parts Only
~ 1116 ~
३५वेदनापदं सू. ३२९
॥५५६॥