SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३५], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३२८] गाथा: किं दधतो वेयणं वेदंति' इत्यादि, सकलमपि सुगम। प्रकारान्तरेण वेदनांपि प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्रे आह-'कइविहा णं भंते !' इत्यादि, शरीरे भवा शारीरी मनसि भवा मानसी तदुभयभवा शारीरमानसी, शारीरी १च मानसी च शारीरमानसी, 'पुंषत्कर्मधारय' इति पुंवद्भावः, एतामेय चतुर्विंशतिदण्डकक्रमेण चिन्तयति-'नेर-19 इया णं भंते ! किं सारीरं वेयणं वेदेति' इत्यादि, तत्र यदा परस्परोदीरणतः परमाधार्मिकोदीरणतो वा क्षेत्रानुभावितो वा शरीरे पीडामनुभवन्ति तदा शारीरी वेदनां वेदयन्ते, यदा तु केवलं मनसि दुःखं परिभावयन्ति पाश्चात्य या भवमात्मीयं दुष्कर्मकारिणमनुसृत्य पश्चात्तापमतीव कुर्वते तदा मानसीं वेदनां वेदयन्से, यदा तु शरीरे मनसि चोक्तप्रकारेण युगपत् पीडां अनुभवन्ति तदा शारीरमानसी, इहापि वेदनानुभावः क्रमेणेव केवलं विवक्षिततावत्कालमध्ये शरीरे च पीडामनुभवन्ति मनसि च एतावन्तं कालं एकं विवक्षित्वा युगपच्छरीरमनःपीडानुभवः प्रतिपादित इत्यदोषः, 'एवं जाव वेमाणिया' इत्यादि, एवं-नैरयिकोक्तेन प्रकारेण सूत्रं तावद् वक्तव्यं यावद्वैमानिकाः, नवरमेकेन्द्रियषिकलेन्द्रियाः शारीरी वेदना वेदयन्ते न मानसी, तेषां मनसोऽभावात् , ततस्तदनुसारेण तद्विषयं सूत्र वक्तव्यं । प्रकारान्तरेण वेदनामभिधित्सुःप्रश्ननिर्वचनसूत्रे आह-'कइविहा णं भंते ।' इत्यादि, तत्र साता-सुखरूपा असाता-दुःखरूपा सातासाता-सुखदुःखात्मिका, एतामेव नैरयिकादिचतुर्विंशतिदण्डकक्रमेण चिन्तयति।'नेरइया णमित्यादि, तत्र तीर्थकरजन्मादिकाले सातवेदनां वेदयन्ते, शेषकालमसातवेदनां वेदयन्ते, यदा तु पूर्वस-18॥ दीप अनुक्रम [५९४-५९६] ~1115~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy