________________
आगम
(१५)
प्रत
सूत्रांक
[३२१
-३२७]
दीप
अनुक्रम
[५८७
-५९३]
प्रज्ञापनाया मल
य० वृत्ती.
॥५५०॥
“प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः)
-
उद्देशक: [-],
दार [-],
मूलं [३२१-३२७] ... आगमसूत्र [१५], उपांग सूत्र [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
पदं [३४], मुनि दीपरत्नसागरेण संकलित..
सति इच्छामनः कामविषयेच्छाप्रधानं मनः क्षिप्रमेवातितृप्तिभावात् शीतीभवति, इयमत्र भावना-यथा शीतपुद्गलाः शीतयोनिकस्य प्राणिनः संस्पर्शे शीतत्वं विशेषतः आसादयन्तस्तस्य सुखित्वायोपकल्पन्ते उष्णपुद्गला वा उष्णयोनिकस्य प्राणिनः संस्पर्शे उष्णत्वमतिप्रभूतमासादयन्तः सुखाय घटन्ते तथा देवीशरीरपुद्गला देवशरीरमवाप्य देवशरीरपुद्गला अपि देवीशरीरमवाप्य परस्परं तद्गुणतां भजमानाः परस्परं सुखित्वायोपकल्पन्ते ततस्तृतिरुपजायते तृप्तिभावाच्चाभिलाषनिवृत्तिर्भवतीति । इह मनुष्यस्त्रीणां मनुष्यपुरुषोपभोगे शुक्रपुद्गलसङ्क्रमतः सुखमुपजायमानं लब्धं तत्किं देवीनामप्युपभोग्य देवसत्क शुक्रपुद्गलसङ्क्रमतः सुखमुपजायते आहोश्विदन्यथेति संशयानो देवानां शुक्रपुद्गलास्तित्वं पृच्छति - 'अस्थि ण' मित्यादि, अस्तीतिनिपातोऽत्र बद्धर्थे, णमिति पूर्ववत् भदन्त । तेषां देवानां शुक्रपुदूलाः यत्सम्पर्कतो देवीनां सुखमुपजायते ?, 'हंता ! अस्थि' भगवानाह - गौतम । सन्ति, केवलं ते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतवः, 'ते णं भंते ।' इत्यादि, ते शुक्रपुद्गलाः, णमिति पूर्ववत् भदन्त । तासामप्सरसां कीदृक्खरूपतया 'भूयो २' यदा २ क्षरन्ति तदा २ इत्यर्थः परिणमन्ति १, भगवानाह - 'गोयमे' त्यादि, श्रोत्रेन्द्रि यरूपतया यावत्स्पर्शनेन्द्रियतया, तेऽपि कदाचिदनिष्टतया परिणमन्तः सम्भाव्येरन् तत आह-इष्टतया, इष्टमपि किचित्खरूपतोऽकान्तं भवति, यथा शूकरादीनामिष्टमपि विष्ठादि, तत आह- 'कान्ततथा' कमनीयतया, कान्तमपि किञ्चिन्मनः स्पृहणीयं न भवति तत आह- 'मनोज्ञतया' अतिस्पृहणीयतया, तदप्यतिस्पृहणीयत्वं कदाचिदा
For Penal Use On
~1104~
३४ प्रवी
चारपदं स्. ३२३-३२७
||५५० ॥