________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२१-३२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३२१-३२७]
दीप अनुक्रम [५८७-५९३]
|'शृङ्गाराणि' शृङ्गारो-विभूषणादिभिर्मण्डनं स विद्यते येषां तानि शृङ्गाराणि, अभ्रादिभ्य' इस्वादि अप्रत्ययः, विभूषणादिकृतोदारकाराणीत्यर्थः, तानि च कदाचित् कस्यचिदमनोज्ञानि भवेयुः अत आह-'मनोज्ञानि' खखोपभोग्यदेवमनोविषयभावपेशलानि, तानि लेशतोऽपि सम्भाव्यन्ते तत आह-'मनोहराणि खखोपभोग्यस्य देवस्य मनो | हरन्ति-आत्मवशं नयन्तीति मनोहराणि, लिहादित्वादच्', तच मनोहरत्वं प्रथमसमापातमात्रभाष्यपि भवति तत
आह-'मनोरमाणि' मनः खखोपभोग्यदेवसम्बन्धि रमयन्ति-क्रीडयन्ति प्रतिक्षणमुत्तरोत्तरानुरागसम्पृक्तं जनयम्तीति मनोरमाणि, तानि इत्थंभूतानि उत्तरवैक्रियाणि रूपाणि विकुर्वित्वा तेषां देवानामन्तिक-समीपं प्रादुर्भवन्ति, 'तते ण'मित्यादि, ततः णमिति पूर्ववत् , ते देवास्ताभिरप्सरोभिः सार्द्ध कायपरिचारण-मनुष्य इव मनुष्यस्त्रीभिः सर्वाङ्गीणकायक्लेशपूर्वक मैथुनोपसेवनं कुर्वन्ति, एवमेव तेषां वेदोपशान्तिभावात् । तथा चामुमेवार्थ दृष्टान्तेन द्रढयति-से जहाणामए' इत्यादि से' इति अथशब्दार्थः, स चात्र वाक्योपन्यासे, यथा नाम 'ते' विवक्षिताः शीताः पुदलाः शीतं-शीतयोनिकं प्राणिनं प्राप्य 'शीतमेव' शीतत्वमेवातित्रज्य-अतिशयेन गत्वा तिष्ठन्ति, किमुक्तं भवति ?-विशेषतः शीतीभूतस शीतयोनिकस्य प्राणिनः सुखित्वायोपकल्पन्ते, उष्णा वा पुगला उष्णयोनिकं प्रा|णिनं प्राप्य 'उष्णमेव' उष्णत्वमेवातित्रज्य-अतिशयेन गत्वा तिष्ठन्ति, विशेषतः स्वरूपलाभसम्पत्या तस्य सुखि-18 वायोपतिष्ठन्ते इति भावः, 'एवमेव' अनेनैव प्रकारेण तैर्देवस्ताभिरप्सरोभिः साई यथोक्तरूपे कायपरिचारणे कृते।
~1103~