SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ आगम “प्रज्ञापना” - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], -------------- उद्देशक: [-1, ------------- दारं [-], -------------- मूलं [३२१-३२७] (१५) प्रत ब्लटवाररब्रहर 92520399 सूत्रांक [३२१-३२७] पातकालमात्रभावि सम्भाव्यते तत आह-'मनआपतया' मन आमुवन्ति-मनसि सदा रमन्ते इति मनापास्तद्रावस्तत्ता तया, मनसा सदा स्पृहणीयतयेति भावः, करमादिति चेत्, अत आह-सुभगतया' 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति न्यायात् अत्र हेतौ तृतीया, ततोऽयमर्थः-यतः सुभगतया-सर्वजनप्रियतया परिणमन्ति तत उच्यते इष्टतया कान्ततयेत्यादि, सुभगतया परिणमनमपि कथमिति चेत्, अत आह-'सोहग्गरूवजोषणगुणलावन्नत्ताए' इति, अत्र प्राकृततया गुणशब्दस्य लावण्यशब्दात् पूर्व निपातः परमार्थतस्तु परतो द्रष्टव्यः, ततोऽयमर्थः-सौभाग्याय-सौभाग्यहेतवे रूपयौवनलावण्यरूपा गुणा यस्य तत्सौभाग्यरूपयौवनलावण्यगुणं तद्भावसत्ता तया, तत्र रूप-सौन्दर्यवती आकृतियौवनं-परमस्तरुणिमा लावण्यं-अतिशायी मनोभवविकारदेतुः परिणतिविशेषः, यतः सौभाग्यहेतुरूपादिगुणनिबन्धनतया परिणमन्ति ततः सुभगतया परिणमंतीत्युच्यते, एवं ते शुक्रपुद्गलास्तासामप्सरसां भूयो भूयः परिणमन्ति । तदेवं कायपरिचार उक्तः, सम्प्रति स्पर्शपरिचारं विभावयिषुराह-तत्य ण'मित्यादि, तत्र-तेषु परिचारकादिषु मध्ये णमिति पूर्ववत् ये ते स्पर्शपरिचारका देवास्तेषां णमिति पूर्ववत् एवमि|च्छामनः-स्पर्शपरिचारविषयेच्छाप्रधानं मनः समुत्पद्यते, 'एवं जहे-'त्यादि, एवं-उक्तेन प्रकारेण यथैवानन्तरं प्राक् कायपरिचारका उक्ताः तथैव स्पर्शपरिचारकेष्वपि निरवशेष भणितव्यं, तचैवम्-'इच्छामो णं अच्छराहिं सद्धिं फासपरियारं करेत्तए, तएणं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ उरालाई जाव विउविचा दीप अनुक्रम [५८७-५९३] *993 wwwjandiarary.om ~1105~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy