________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [३४], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३२१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
अनन्तरोपपन्नकाते न जानन्ति न पश्यन्ति, प्रथमसमयोत्पन्नतयाऽवधिज्ञानोपयोगस्य चक्षुरिन्द्रियस्य चाभावात्, N|किन्त्येवमेषाहारयन्ति, तत्र ये ते परम्परोपपन्नकास्ते द्विविधाः, तद्यथा-पर्यासा अपर्याप्ताश्च, तत्र ये ते अपर्याप्तIS कास्ते न जानन्ति न च पश्यन्ति, पर्याप्तीनामसम्पूर्णत्वेनावध्याधुपयोगाभावात् , येऽपि पर्याप्तास्तेऽपि द्विविधाः,
तद्यथा-उपयुक्ता अनुपयुक्ताश्च, तत्र ये ते उपयुक्तास्ते जानन्ति, अवधानवशतो यथाशक्ति नियमेन ज्ञानस्य स्खविषयपरिच्छेदाय प्रवृत्तिसम्भवात् , पश्यन्ति चक्षुषा इन्द्रियपाटवस्य तेषामतिविशिष्टत्वात् , ये त्वनुपयुक्तास्ते न जानन्ति न च पश्यन्ति अनुपयुक्तत्वादेव, उपयुक्ता अपि कथं मनोभक्ष्याहारयोग्यान् पुद्गलान् जानते इति चेत्, उच्यते, इहावश्यकप्रथमपीठिकायामवधिज्ञानाधिकारेऽभिहितम्-"संखेज कम्मद लोए थोऊणय पलियं" अस्थायमर्थःकार्मणशरीरद्रव्याणि पश्यन् क्षेत्रतो लोकस्य सङ्ख्येयान् भागान् पश्यति कालतः स्तोकोनं पल्योपमं यावत् , अनुत्तरास्तु सम्पूर्णी लोकनाडी पश्यन्ति, 'संभिन्न लोगनालिं पासंति अनुत्तरा देवा' इति वचनात् , ततस्ते मनोभक्ष्याहारयोग्यानपि पुद्गलान् जानन्ति, आह च मूलटीकाकार:-'ते जानन्ति पश्यन्ति आहारयन्ति च, विशुद्धत्वादवधेरिन्द्रियविषयस्य चातिविशुद्धत्वात् पश्यन्त्यपि" इति, अत्र इन्द्रियविषयस्येति-इन्द्रियपाटवस्खेतिभावः, उपसंहारवाक्यं
प्रतीतं । अध्यवसायचिन्तायां प्रत्येकं नैरयिकादीनामसङ्ख्ययान्यध्यवसानानि प्रतिसमयं प्रायोऽन्यान्याध्यवसानभासवात् । सम्यक्त्वायधिगमचिन्तां कुर्वन्नाह-'नेरइया ण'मित्यादि, नैरयिकाः णमिति पूर्ववत् भदन्त ! किं सम्यक्त्वा
eatiseekerseases
[३२१]
दीप
अनुक्रम [५८७]
~1097~