SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्तिः ) पदं [३३], --------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१७] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३१७] गाथा तद्यथा-अन्तगतो मध्यगतश्च, अथान्तगत इति कः शब्दार्थः १, उच्यते, इह पूर्वाचार्यप्रदर्शितमर्थत्रयं अन्तेआत्मप्रदेशानां पर्यन्ते गतः-स्थितोऽन्तगतः, काऽत्र भावनेति चेत् , उच्यते, इहावधिरुत्पद्यमानः कोऽपि स्पर्द्धकरूपतयोत्पद्यते, स्पर्द्धकं च नामावधिज्ञानप्रभाया गवाक्षजालादिद्वारविनिर्गतप्रदीपप्रभाया इव प्रतिनियतो विच्छेदविशेपः, तथा चाह जिनभद्रगणिक्षमाश्रमणः खोपज्ञभाष्यटीकायां-"स्पर्द्धकमवधिविच्छेदविशेष" इति, तानि च एकजीवस्थासङ्घयेयानि संख्येयानि च भवन्ति, यत उक्तं मूलावश्यकप्रथमपीठिकायाम्-'फडाय असंखेजा संखिज्जा यावि एगजीवस्स' इति, [स्पर्धकान्यसंख्येयानि संख्येयानि चापि एकजीवस्य ] तानि च विचित्ररूपाणि कानिचित्पर्यन्तवर्तिष्वात्मप्रदेशेषूत्पद्यन्ते, तत्रापि कानिचित्पुरतः कानिचित्पृष्ठतः कानिचिदधोभागे कानिचिदुपरितनभागे कानिचिन्मध्यवर्तिप्यात्मप्रदेशेष्येवं योऽवधिरुपजायते स आत्मनः पर्यन्ते स्थित इतिकृत्वा अन्तगत इत्यभिधीयते, तैरेव पर्यन्तवतिमिरात्मप्रदेशैः साक्षादवबोधात्', अथवा औदारिकशरीरस्थान्ते गतः-स्थितोऽन्तगतः, औदारिकशरीरम|धिकृत्य कदाचिदेकया दिशोपलम्भात् , इदमपि स्पर्द्धकरूपमवधिज्ञानं, अथवा सर्वेषामप्यात्मप्रदेशानां क्षयोपशमभावेऽपि औदारिकशरीरस्यान्ते कयाचिदेकया दिशा यशादुपलभ्यते सोऽप्यन्तगतः, आह-यदि सर्वेषामप्यात्मप्रदेशानां क्षयोपशमस्ततः सर्वतः किं न पश्यति !, उच्यते, एकदिशैव क्षयोपशमसम्भवात् , विचित्रो हि देशाद्यपेक्षया कर्मणां क्षयोपशमः, ततः सर्वेषामप्यात्मप्रदेशानामित्थंभूत एव खसामग्रीवशात् क्षयोपशमः संवृत्तो यदौदारिक दीप अनुक्रम [५७९-५८०] ~1077~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy