________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२९], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१२]
दीप
भंते।' इत्यादि, नैरयिका हि द्विविधा भवन्ति-सम्यग्दृष्टयो मिथ्यादृष्टयश्च, अवधिरपि तेषां भवप्रत्ययोऽवश्यमुपजायते,
भवप्रत्ययो नारकदेवाना' (तत्त्वा० अ०१ सू०२२) मिति वचनात् , तत्र सम्यग्दृष्टीनां मतिज्ञानश्रुतज्ञानावधि| ज्ञानानि मिथ्यादृष्टीनां मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानीति सामान्यतो नैरयिकाणां षड्विधः साकारोपयोगः, अना-M कारोपयोगस्त्रिविधस्तद्यथा-चक्षुर्दर्शनं अचक्षुर्दर्शनमवधिदर्शनं च, एष च त्रिविधोऽप्यनाकारोपयोगः सम्यग्दृशां । मिथ्यादृशां चाविशेषेण प्रतिपत्तव्यः, उभयेषामप्यवधिदर्शनस्य सूत्रे प्रतिपादितत्वात् , एवमसुरकुमारादीनां स्तनितकुमारपर्यवसानानां भवनपतीनामप्यवसेयं, पृथिवीकायिकानां साकारोपयोगो द्विविधस्तद्यथा-मस्यज्ञानं श्रुताज्ञानं च, अनाकारोपयोग एकोऽचक्षुर्दर्शनरूपः, शेषोपयोगानां तेपामसम्भवात् , सम्यग्दर्शनादिलब्धिविकलत्वात, एवमसेजोवायुवनस्पतीनामपि वेदितव्यं, द्वीन्द्रियाणां साकारोपयोगश्चतुर्विधः, तद्यथा-मतिज्ञानं श्रुतज्ञानं मत्यज्ञानं श्रुता-18 ज्ञानं, तत्रापर्याप्तावस्थायां केषांचित् सासादनभावमासादयतां मविज्ञानश्रुतज्ञाने शेषाणां तु मत्यज्ञानश्रुताज्ञाने, अना-191 कारोपयोगस्त्वेकोऽचक्षुर्दर्शनरूपः, शेषोपयोगाणां तेषामसम्भवात्, एवं त्रीन्द्रियाणामपि, चतुरिन्द्रियाणामप्येवं, नवरमनाकारोपयोगो द्विविधः चक्षुर्दर्शनमचक्षुर्दर्शनं च, पञ्चेन्द्रियतिरश्वां साकारोपयोगः षड्विधस्तद्यथा-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं, अनाकारोपयोगविविधस्तद्यथा-चक्षुर्दर्शनं अचक्षुर्दर्शनं अवधिदशेनं च, अवधिद्विकस्यापि केषुचिचेषु सम्भवात् , मनुष्याणां यथासम्भवमष्टावपि साकारोपयोगाश्चत्वारोऽप्यनाकारो
अनुक्रम [५७२]
~ 1059~