________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२९], -------------- उद्देशक: [-], ------------- दारं [-], -------------- मूलं [३१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
प्रज्ञापनाया: मलय० वृत्ती.
॥५२७॥
[३१२]
[विपरीतो भङ्गः-परिच्छित्तिप्रकारो यस्य तत् विभ, तच तत् ज्ञानं च विभङ्गज्ञान, सर्वत्रापि च साकारोपयोगशब्देन
२९ उपविशेषणसमासः । अनाकारोपयोगभेदानभिधित्सुराह-'अणागारोवओगे णं भंते । इत्यादि, तत्र चक्षुपा-चक्षुरिन्द्रियेण दर्शनं-रूपसामान्यग्रहणलक्षणं चक्षुर्दर्शनं तच तत् अनाकारोपयोगः चक्षुर्दर्शनानाकारोपयोगः, अचक्षुषाचक्षुर्वशेषेन्द्रियमनोभिर्दर्शनं-खखविषये सामान्यग्रहणमचक्षुर्दर्शनं, ततोऽनाकारोपयोगशब्देन विशेषणसमासः, एवमुत्तरत्रापि, अवधिरेव दर्शनं-सामान्यग्रहणमवधिदर्शनं, केवलमेव सकलजगदूभाविसमस्तवस्तुसामान्यपरिच्छेदरूपं । दर्शनं केवलदर्शनं, अथ मनःपर्यायदर्शनमपि कस्मान्न भवति येन पञ्चमोऽनाकारोपयोगो न भवतीति चेत् ?, उच्यते, मनःपर्यायविषयं हि ज्ञानं मनसः पर्यायाने विविक्तान गृहृदुपजायते, पर्यायाश्च विशेषाः, विशेषालम्बनं च ज्ञान ज्ञानमेन दर्शनमिति मनःपर्यायदर्शनाभावस्तदभावाच पञ्चमानाकारोपयोगासम्भव इति । एवं जीवाण'मित्यादि, एवं निर्विशेषणोपयोगवत् जीवानामप्युपयोगो द्विविधः प्रज्ञप्तो भणितव्यः, तत्रापि साकारोपयोगोऽष्टविधोऽनाकारोपयोगश्चतुर्विधः, एतदुक्तं भवति-यथा प्राक् जीवपदरहितमुपयोगसूत्रं सामान्यत उक्तं तथा जीवपदसहितमपि भणितव्यं, तद्यथा-'जीवाणं भंते ! कतिविधे उपओगे पं०१.गो01 दविषे उवओगे पं०, तं-सागारोवोग।
॥५२७॥ य अणागारोवओगे य, जीवाणं भंते | सागारोवओगे कतिविधे पं०१.गो.! अद्रविधे पं० त०' इत्यादि, तदेवं सामान्यतो जीवानामुपयोगश्चिन्तितः, सम्प्रति चतुर्विंशतिदण्डकक्रमेण नैरयिकादीनां चिन्तयन्नाह-निरइयाणं
कजन0000000
दीप
अनुक्रम [५७२]
~1058~