SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ आगम (१५) प्रत सूत्रांक [३७] दीप अनुक्रम [१६६ ] “प्रज्ञापना” - उपांगसूत्र - ४ ( मूलं + वृत्तिः ) उद्देशक: [ - ], दारं [-], मूलं [३७...] पदं [१]. मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१५], उपांग सूत्र [४] " प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्तिः रदिग्व्यवस्थिताः अष्टाविंशतिविधा अन्तरद्वीपास्तादृशा एव तावत्प्रमाणा तावदपान्तरालास्तन्नामान एवं शिखरिपवैत पूर्वापरदिग्व्यवस्थिता अपि ततोऽत्यन्तसदृशतया व्यक्तिभेदमनपेक्ष्यान्तरद्वीपा अष्टाविंशतिविधा एव विवक्षिता इति तज्जातमनुष्या अप्यष्टाविंशतिविधा उक्ताः । तानेव नामग्राहमुपदर्शयति-' तंजहा एगोरुया' इत्यादि, एते सप्त चतुष्काः, अष्टाविंशतिसंख्यत्वात् एते च प्रत्येकं हिमवति शिखरिणि च तत्र हिमबद्तास्तावद् भाव्यन्ते - इह जम्बूद्वीपे भरतस्य हैमवतस्य च क्षेत्रस्य सीमाकारी भूमिनिममपञ्चविंशतियोजनो योजनशतोच्छ्रयपरिमाणो भरतक्षेत्रापेक्षया द्विगुणविष्कम्भो हेममयश्वीन पट्टवर्णो नानावर्णविशिष्टद्युतिमणिनिकरपरिमण्डितोभयपार्श्वः सर्वत्र तुल्यविस्तारो गगनमण्डलोले खिग्नमयैकादशकूटोपशोभितो वज्रमयत लविविधमणिकनकमण्डित तदभागदशयोजनावगाढपूर्वपश्चिमयोजन सहस्रायामदक्षिणोत्तरपञ्चयोजनशत विस्तारः पद्महदशोभितशिरोमध्यभागः सर्वतः कल्पपादप श्रेणिरमणीयः पूर्वापरपर्यन्ताभ्यां लवणोदार्णवजलसंस्पर्शी हिमवन्नामा पर्वतः, तस्य लवणोदार्णवजलसंस्पर्शादारभ्य पूर्वस्यां पश्चि मायाञ्च दिशि प्रत्येकं द्वे द्वे गजदन्ताकारे दंष्ट्रे विनिर्गते, तत्र ऐशान्यां दिशि या विनिर्गता दंष्ट्रा तस्यां हिमवतः पर्यन्तादारभ्य श्रीणि योजनशतानि लवणसमुद्रमवगाह्यात्रान्तरे योजनशतत्रयायामविष्कम्भः किञ्चिश्यूनैकोनपञ्चाशदधिकनवयोजनशतपरिश्य एकोरुकनामा द्वीपो वर्तते, अयं च पञ्चधनुःशतप्रमाणविष्कम्भया द्विगव्यूतोच्छ्रितया पद्मवरवेदिकया सर्वतः परिमण्डितः, तस्याश्च पद्मवरवेदिकाया वर्णको जीवाभिगमटीकायामिव वेदितव्यः साऽपि च Education Internationa For Parts Only ~ 105 ~
SR No.004115
Book TitleAagam 15 PRAGNAPANA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1227
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_pragyapana
File Size261 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy