________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], -------------- उद्देशक: [२], ------------- दारं [८-१३], -------------- मूलं [३११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३११]
दीप अनुक्रम [५६६-५७१]
च सदा बहुत्वेन लभ्यमानत्वात् , भाषामनःपर्याप्त्यपर्याप्तकास्त्वेकेन्द्रियविकलेन्द्रिया न भवन्ति, किन्तु पञ्चेन्द्रिया एव, येषां हि भाषामनःपर्याप्तिसम्भवोऽस्ति त एव तत्पर्याप्यपर्यासकाः प्रोच्यन्ते, न शेषा इति, ततस्तत्सूत्रे बहुवचने जीवपदे पञ्चेन्द्रियतिर्यग्योनिकपदे च भङ्गत्रिकं, पञ्चेन्द्रियतिर्यञ्चो हि सम्मूर्छिमाः सदैव बहयो लभ्यन्ते, ततो यावदद्याप्यन्यो विग्रहगत्यापन्नः पञ्चेन्द्रियतिर्यग् न लभ्यते तावदेष भङ्गः-सर्वेऽपि तावद् भवेयुराहारका इति १, एकस्मिन् तस्मिन् विग्रहगत्यापन्ने लभ्यमाने द्वितीयो भङ्गः-आहारकाश्चानाहारकश्चेति २, यदा तु विग्रहगत्यापन्ना अपि बहवो लभ्यन्ते तदा तृतीयो भङ्गा-आहारकाचानाहारकाश्चेति ३, जीवपदेऽपि भङ्गत्रिकं एतदपेक्षया प्रत्येयं, नैरयिकदेवमनुष्येषु प्रत्येकं पडू भङ्गाः, ते च प्रागेवोक्ताः, इह भव्यपदादारभ्य प्राय एकत्वेन बदुत्वेन च वैविक्त्येन सूत्राणि जीवादिदण्डकक्रमेण नोक्तानि ततो मा भून्मन्दमतीनां सम्मोह इति तद्विषयमतिदेशमाह-'सधपएसु एगचे सादि, एते जीवादयो दण्डकाः सर्वपदेषु-सर्वेष्वपि पदेषु एकत्वेन बदुत्वेन च पृच्छया उपलक्षणमेतन्निवंचनेन। मणितव्याः, किं सर्वत्राप्यविशेषेण कर्त्तव्याः १, नेत्साह-'जस्से सादि, यस्य यदस्ति तस्य तत्पृच्छयते-तद्विषयं सूत्रं भण्यते, यस्य पुनः यन्नास्ति न तस्य तत्प्रष्टव्यं-न तद्विषयं तस्य सूत्रं वक्तव्यमिति भावः, कियडूरं यावदेवं कर्तव्यमिति शङ्कायां चरमदण्डकवक्तव्यतामुपदिशति-'जाव भासामणपज्जतीए अपज्जत्तपसु' इत्यादि, भाविताथै, इहा|धिकृतार्थभावनार्थमिमाः पूर्वाचार्यप्रतिपादिता गाथा:-"सिद्धेगिंदियसहिया जहिं तु जीवा अभंगयं तत्थ । सिद्धे
tateracticersersesecesters
~1051~