________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२८], .. -- उद्देशक: २], ------------- दारं [४-७], -------------- मूलं [३१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१५], उपांग सूत्र - [४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [३१०]]
दीप अनुक्रम [५६२-५६५]
नि, तद्यथा-सामान्यतो जीवपदं तिर्यक्रपञ्चेन्द्रियपदं मनुष्यपदं च, एतेषु त्रिष्वपि स्थानेषु एकवचने बहुवचने च । आहारका भवन्ति, भवान्तरगतौ केवलिसमुद्घाताद्यवस्थासु च देशविरतिपरिणामाभावात् , नोसंयतोनोअसंयतोनोसंयतासंयतः, तचिन्तायां वे पदे, तद्यथा-जीवपदं सिद्धपदं च, उभयत्राप्येकवचने बहुवचने चानाहारकत्वमेव वक्तव्यं, न त्वाहारकत्वं, सिद्धानामनाहारकत्वात् । गत संयतद्वारं, कषायद्वारं-'सकसाई णं भंते ! जीवे' इत्यादि, एकवचनविषयं सूत्रं सुगम, बहुवचने 'जीवेगिदियवज्जो तियभंगो'त्ति जीवपदे पृथिव्यादिषु च पञ्चसु पदेषु प्रत्येक आहारका अपि अनाहारका अपि वक्तव्यं, उभयेषामपि सकषायाणां सदैव तेषु स्थानेषु बहुत्वेन लभ्यमानत्वात् , |शेषेषु तु स्थानेषु भात्रिकं, 'कोहकसाई एवं चेच'त्ति क्रोधकषाय्यपि एवमेव-सामान्यतः सकषायवदवसेयः, तत्रा-2 पि जीवपदे पृथिव्यादिपदेषु चाभङ्गक, शेपेषु तु स्थानेषु भङ्गत्रिकमिति भावः, किं सर्वेष्वपि शेषेषु स्थानेषु भङ्गत्रिक?, नेत्याह-'नवरं 'देवेसु छन्भंगा' देवा हि खभावत एव लोभबहुला भवन्ति न क्रोधादिबहुलाः, ततः क्रोधकषायिण एकादयोऽपि लभ्यन्ते इति षड् भङ्गाः, तद्यथा-कदाचित् सर्वेऽप्याहारका एव क्रोधकषायिणः, एकस्यापि विग्रहगत्यापन्नस्यालभ्यमानत्वात् १, कदाचित्-सर्वेऽप्यनाहारकाः२, एकस्यापि क्रोधकपायिणःसत आहारकस्याप्राप्यमानत्वात् , क्रोधोदयो हि मानायुदयविविक्त एवंह विवक्ष्यते न मानायुदयसहितोऽपि, तेन क्रोधकषायिणः सतः कदा-1 चिदाहारकस्य सर्वथाऽप्यभावः, तथा कदाचिदेक आहारक एकोऽनाहारकः ३ कदाचिदेक आहारको बहवोऽनाहा
~1041~