________________
आगम
(०५)
ཏྠཱ + བྷུལླཱ ཡྻ
[२७-२८]
““भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः )
शतक [१], वर्ग [–], अंतर् शतक [-], उद्देशक [२], मूलं [२१] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तु पश्चादुत्पन्नाः, तत्र पूर्वोत्पन्नानामायुषस्तदन्यकर्मणां च बहुतरवेदनादल्पकर्मत्वं, पश्चादुत्पन्नानां च नारकाणामायुष्कादीनामल्पतराणां वेदितत्वात् महाकर्म्मत्वम्, एतच्च सूत्रं समानस्थितिका ये नारकास्तानङ्गीकृत्य प्रणीतम्, अन्यथा हि | रत्नप्रभायामुत्कृष्टस्थितेर्नारकस्य बहुन्यायुषि क्षयमुपगते पल्योपमावशेषे च तिष्ठति तस्यामेव रत्नप्रभायां दशवर्षसहस्र| स्थितिर्नारकोऽन्यः कश्चिदुत्पन्न इतिकृत्वा प्रागुत्पन्नं पल्योपमायुष्कं नारकमपेक्ष्य किं वक्तुं शक्यं महाकम्र्मेति १ ॥ एवं वर्णसूत्रे पूर्वोत्पन्नस्यात्पं कर्म ततस्तस्य विशुद्धो वर्णः पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो वर्ण इति ॥ एवं लेश्या सूत्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्याः, बाह्यद्रव्यलेश्या तु वर्णद्वारेणैवोकेति ॥ 'समवेयण'त्ति 'समवेदनाः' समानपीडाः 'सन्निभूय'त्ति सज्ञा- सम्यग्दर्शनं तद्वन्तः सज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञित्वं गताः सम्भूताः, अथवाऽसञ्ज्ञिनः सञ्ज्ञिनो भूताः सञ्ज्ञिभूताः, विप्रत्यययोगात्, मिथ्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इतियावत् तेषां च पूर्वकृतकर्मविपाकमनुस्मर तामहो महद्दुःखसङ्कटमिदमकस्मादस्माकमापतितं न कृतो भगवदर्हत्प्रणीतः सकलदुःखक्षयकरो विषयविषमविषपरिभोगविप्रलब्धचेतोभिर्द्धर्म इत्यतो महद्दुःखं मानसमुपजायतेऽतो महावेदनास्ते, असज्ञिभूतास्तु मिथ्यादृष्टयः, ते तु स्वकृतकर्मफलमिदमित्येवमजानन्तोऽनुपतप्तमानसा अल्पवेदनाः स्युरित्येके, अन्ये त्वाहु:-- सञ्ज्ञिन:- सञ्ज्ञिपञ्चेन्द्रियाः सन्तो भूता-नारकत्वं गताः सब्ज्ञिभूताः, ते महावेदना:, तीव्राशुभाध्यवसायेनाशुभतरकर्मबन्धनेन महानरकेषूत्पादात्, असज्ञिभूतास्त्वनुभूत पूर्वासञ्ज्ञिभवाः, ते चासञ्ज्ञित्वादेवात्यन्ताशुभाध्यवसायभावा
१ सायभावात् प्र०
Etration int
For Park Use Only
~89~
********