________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [५], वर्ग [-1, अंतर्-शतक [-], उद्देशक [७], मूलं [२१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१८]
दीप अनुक्रम [२५८-२५९]]
सति, न च सङ्घातेन न सजिप्सः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणतेः श्रवणात् , नियमात्तेषां-द्रव्याणामवगाहनाया नाशो भवति, कस्मादेवमित्यत उच्यते-अवगाहनाद्धा द्रव्येऽवबद्धा-नियतत्वेन संबता, कथं , सङ्कोचा-| द्विकोचाच्च, सङ्कोचविकोचादि परिहत्येत्यर्थः, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे च न ४|| भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धेत्युच्यते, दुमत्वे खदिरत्वमिवेति । उक्तविपर्ययमाह- पुनद्रव्यं सङ्कोच-15 विकोचमात्रे सत्यप्यवगाहनायां नियतत्वेन संबद्धं, सङ्कोचविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्यवगाहनायां तन्नियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे दुमत्ववदिति । अथ निगमनम् । अथ भावायुर्षहुत्वं भाव्यते-सङ्कातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटे शुक्लादिगुणाः, सकलगुणोपरमे तु न तद्रव्यं न चावगाहनाऽनुवर्तते, अनेन पर्यवाणां चिरं स्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति , उच्यते-सङ्घातभेदलक्षणाभ्यां धर्माभ्यां | यो बन्धः-सम्बन्धस्तदनुवर्तिनी-तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावात्तद्भावे चाभावात्, न पुनर्गु
णकालः सङ्घातभेदमात्रकालसंघद्धा, सङ्घातादिभावेऽपि गुणानामनुवर्तनादिति । अथ निगमनम्-'द्रव्यविशेषः' द्रव्य★परिणामः। ॥ अनन्तरमायुरुक्तम् , अथायुष्मत आरम्भादिना चतुर्विंशतिदण्डकेन प्ररूपयन्नाह
नेरइया णं भंते ! किं सारंभा सपरिग्गहा उदाहु अणारंभा अपरिग्गहा ?, गोयमा ! नेरड्या सारंभा सपरिग्गहा नो अणारंभा णो अपरिग्गहा । से केणटेणं जाव अपरिग्गहा, गोयमा 1 नेरइया णं पुढवि-18 & कार्य समारंभंति जाव तसकार्य समारंभंति सरीरा परिम्गहिया भवंति कम्मा परिग्गहिया भवंति सचित्ता
द्रव्य-क्षेत्र-काळ-भाव अवस्थानस्य अल्प-बहत्व
~ 478~