________________
आगम
(०५)
ཝ྄ཡཱ སྦྲ + ཋལླཱཡྻ
[११-१२]
““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:)
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [९] + गाथा मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Jan Education
निरन्तरमेवोच्छ्रासनिःश्वासौ दृश्येते सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-'संतयामेव 'त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात् आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिरा| द्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति ॥ अथ तेषामेवाहारं प्रश्नवशाह - 'णेरइयाण' मित्यादि व्यक्तं, नवरम् 'आहारडि'त्ति आहारमर्थयन्ते- प्रार्थयन्त इत्येवंशीला अर्थो वा प्रयोजनमेषामस्तीत्यर्थिनः, आहारेण - भोजनेनार्थिन आहा|रार्थिनः, आहारस्य-भोजनस्य वाऽर्थिन आहारार्थिनः, 'जहा पन्नवणाए 'ति 'आहारडी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाचतुर्थीपाङ्गस्य 'पढमए'त्ति आये 'आहारउद्देसए' त्ति आहारपदस्याष्टाविंशतितमस्योदेशकः पदशब्दलोपाच्चाहारोद्देशकः | तत्र भणितं 'तहा भाणियनं'ति तेन प्रकारेण वाच्यमिति । तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थं पूर्वोक्तस्थित्युच्छ्रासलक्षणद्वारद्वयदर्शनपूर्विका गाथामाह-'ठिइगाहा' व्याख्या, स्थितिर्नारकाणां वाच्या, उच्छ्रासश्च तौ चोक्तावेव । तथा 'आहारे'त्ति आहारविषयो विधिर्वाच्यः स चैवम्- 'णेरइयाणं भंते ! आहारडी ?, हंता आहारडी पोरइयाणं भंते ! केवइकालस्स आहार समुप्पज्जइ ?, 'आहारार्थः ' आहारप्रयोजनमाहारार्थित्वमित्यर्थः, 'गोयमा ! | रइयाणं दुबिहे आहारे पन्नत्ते' अभ्यवहार क्रियेत्यर्थः 'तंजहा- आभोगनिवत्तिए य अणाभोगनिवत्तिए य' तत्राभोगः| अभिसन्धिस्तेन निर्वर्त्तितः कृत आभोगनिर्वर्त्तितः, आहारयामीतीच्छापूर्वक इत्यर्थः, अनाभोगनिवर्त्तितस्तु आहारयामीति विशिष्ठेच्छामन्तरेणापि, प्रावृट्काले प्रचुरतरप्रश्रवणाद्यभिव्यज्ञयश्री तपुद्गलाद्याहारवत्, 'तत्थ णं जे से अणाभोगनि
|
नैरयिकाणाम स्थिति आदिनाम वर्णनं
For Parts Only
~ 45~
एक ब्