________________
आगम
(०५)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
[s]
““भगवती”- अंगसूत्र- ५ ( मूलं + वृत्ति:)
शतक [१], वर्ग [-], अंतर् शतक [-], उद्देशक [१], मूलं [७-R], मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Educationis
रुदीरणया उदीरणाप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोकपटदृष्टान्तेनोदीरितं भवतीति २ । तथा 'बेइज्जमाणे वेहए'त्ति, वेदनं कर्मणो भोगः, अनुभव इत्यर्थः तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयमुपनीतस्य भवति, तस्य च वेदनाकाल स्यासङ्ख्ये यसमयत्वादाद्य समये वेद्यमानमेव वेदितं भवतीति ३ तथा 'पहिज्रमाणे पहीणे' त्ति, प्रहाणं तु जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम् एतदप्यसङ्ख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादि| समये महीयमाणं कर्म प्रहीणं स्यादिति ४ । तथा 'छिनमाणे छिन्ने'त्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां हस्वताकरणं तच्चापवर्त्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसले यसमयमेव तस्य त्वादिसमये स्थितितस्त| च्छिद्यमानं कर्म छिन्नमिति ५ । तथा 'भिक्षमाणे भिन्ने ति भेदस्तु कर्म्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्त्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्त्तनाकरणेन तीव्रताकरणं, सोऽपि चासयेयसमय एव ततश्च तदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति ६ । तथा 'उज्झमाणे दहे'त्ति, दाहस्तु-कर्म्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकत्यजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्टरूपापनयनं भस्मात्मना च भवनं दाहस्तया कर्मगोऽपीति, | तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेना सङ्ख्येयसमयस्यादिसमये दह्यमानं कर्म दग्धमिति ७ । तथा 'मिजमाणे मडे' स्त्रियमाणमायुः कर्म्ममृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः तच्चासश्वेयसमयवर्त्ति भवति, तस्य च जन्मनः प्रथम| समयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्प्रियमाणं मृतमिति ८ । तथा 'निज्जरिजमाणे निचिण्ण'त्ति, निर्जी|र्यमाणं-नितरामपुनर्भावेन शीयमाणं कर्म निर्जीर्ण-क्षीणमिति व्यपदिश्यते, निर्जरणस्यासोय समय भावित्वेन तत्प्रथम
For Praise Only
~37~
p