________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:)
शतक [१], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[८०]
न करोति तदा क इव दोषोऽत्र , कारणानां स्वस्वकार्यकरणस्वभावत्वादिति । यञ्चोक-धौ परमाणू न सहन्येते, सूक्ष्म-13 | तया स्नेहाभावात् , तदयुक्तम् , एकस्यापि परमाणोः स्नेहसम्भवात्, सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच, यत | उक्तम्-"तिणि परमाणुपोग्गला एगयओ साहणंति ते भिज्जमाणा दुहावि तिहावि कजति, दुहा कज-|| माणा एगओ दिवढे"त्ति, अनेन हि साईपुगलस्य संहतत्वाभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः । स्नेहाभावेन सङ्घाताभाव इति, यच्चोक्तम्-एकतः सार्द्ध एकतः सार्द्ध इति, एतदप्यचारु, परमाणोरीकरणे परमाणुस्वाभावप्रसङ्गात् , तथा यदुक्तं-पञ्च पुद्गलाः संहताः कर्मतया भवन्ति, तदप्यसङ्गतं, कर्मणोऽनन्तपरमाणुतयाऽनन्तस्कन्धरूपत्वात् , पश्चाणुकस्य च स्कन्धमात्रत्वात् , तथा कर्म जीवावरणस्वभावमिष्यते, तब कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसवातप्रदेशात्मकं जीवमावृणुयादिति । तथा यदुक्तं-कर्म च शाश्वतं, तदपि असमीचीनं, कर्मणः शाश्वतत्वे क्षयोपशमायभावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसङ्गात् , दृश्यते च ज्ञानादिहानिवृद्धी, तथा यदुक्तं-कर्म सदा चीयतेऽपचीयते ति, तदप्येकान्तशाश्वतत्वे नोपपद्यत इति । यच्चोक्तं-भाषणात्पूर्व भाषा, तछेतुत्वात् , तदयुक्तमेव,
औपचारिकत्वात् , उपचारस्य च तत्त्वतोऽवस्तुत्वात् , किं च-उपचारस्ताविके वस्तुनि सति भवतीति तात्विकी भाषा. &ास्तीति सिद्धम् , यच्चोक्त-भाष्यमाणाऽभाषा, वर्तमानसमयस्याच्यावहारिकत्वात् , तदप्यसम्यग, वर्तमानसमयस्यैवा
स्तित्वेन व्यवहाराङ्गत्वाद् अतीतानागतयोश्च विनष्टानुत्पन्नतयाऽसत्वेन व्यवहारानङ्गत्वादिति, यच्चोक्त-भाषासमये४त्यादि, तदप्यसाधु, भाष्यमाणभाषाया अभावे भाषासमय इत्यस्याभिलापस्थाभावप्रसङ्गात् , यश्च प्रतिपाद्यस्याभिधेये
दीप अनुक्रम [१०२]
walerary on
~215~