________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [२४], वर्ग [-], अंतर्-शतक [-1, उद्देशक [१], मूलं [६९३] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [५], अंग सूत्र - [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [६९३]
गाथा
तणाव्यवच्छिन्नेनावस्थानं 'कायसंवेहोत्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भवं तत्रैवागम*नम् ॥ अथाधिकृतशतस्योद्देशकपरिमाणपरिज्ञानार्थ गाथामाह-'जीवपए' इत्यादि, इयं च गाधा पूर्वोक्तद्वारगाथाद्वयात्
क्वचित् पूर्व दृश्यत इति । तत्र प्रथमोद्देशको व्याख्यायते, तत्र च कायसंवेधद्वारे-से णं भंते ! पजत्ताअसन्नी'त्यादि,४ दाभवादेसेणं'ति भवप्रकारेण 'दो भवग्गहणाईति एकत्रासज्ञी द्वितीये नारकस्ततो निर्गतः सन्ननन्तरतया सज्ञित्वमेव मालभते न पुनरसज्ञित्वमिति, 'कालाएसेणं'ति कालप्रकारेण कालत इत्यर्थः दश वर्षसहस्राणि नारकजघन्यस्थितिरन्तम-10 हूर्ताभ्यधिकानि असज्ञिभवसम्बन्धिजघन्यायुःसहितानीत्यर्थः, 'उक्कोसेण'मित्यादि, इह पल्योपमासयेयभागः पूर्वभवासज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासन्झ्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रलप्रभानारकेपूत्पित्सवोऽसन्जिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषूस्पित्तूंस्तान् प्ररूपयन्नाह–'पजत्ते त्यादि, सर्व चेदं प्रतीतार्थमेव, एवमुत्कृष्टस्थितिषु रत्नप्रभानारकेपूत्पित्सवोऽपि प्ररूपणीयाः, एवमेते त्रयो गमा निर्विशेषणपर्याप्तकासन्झिनमाश्रित्योक्ताः, एवमेत एव तं| जघन्यस्थितिकं ३ उत्कृष्टस्थितिकं ३ चाश्रित्य वाच्यास्तदेवमेते नव गमाः, तत्र जघन्यस्थितिकमसज्ञिनमाश्रित्य सामान्यनारकगम उच्यते-'जहन्ने त्यादि, 'आउ अज्झवसाणा अणुबंधो यत्ति आयुरन्तर्मुहूर्तमेव जघन्यस्थितेरसन्निनोऽधिकृतत्वात् , अध्यवसायस्थानान्यप्रशस्तान्येवान्तर्मुहूर्तस्थितिकत्वात् , दीपस्थितेहिं तस्य द्विविधान्यपि तानि संभवन्ति कालस्य बहुत्वात् , अनुबन्धश्च स्थितिसमान एवेति । कायसंवेधे च नारकाणां जघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्त वाच्यमिति ४ । एवं जघन्यस्थितिक तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह-'जहन्नकालट्ठिई'त्यादि ५॥ एवं जघन्यस्थितिक
दीप अनुक्रम [८३५-८३८]
For P
OW
असंज्ञी-पर्यंत: उत्पत्ति:
~ 1621 ~