________________
आगम (०५)
"भगवती'- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१८], वर्ग -], अंतर्-शतक [-], उद्देशक [१], मूलं [६१६] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती"मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[६१६]
गाथा:
यो नारको नारकत्वाददत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमः अन्यस्त्वचरमः, एवं यावद्वैमानिका।। 'सिद्धे जहा जीवेत्ति अचरम इत्यर्थः, न हि सिद्धः सिद्धतया विनय यतीति । 'जीवा ण'मित्यादि, पृथक्त्वदण्डकस्तथाविध एवेति ॥ आहारकद्वारे-'आहारए सवत्य'त्ति सर्वेषु जीवादिपदेषु 'सिय चरिमे सिय अचरिमे'त्ति कश्चिच्चरमो यो निर्वास्थति अन्यस्वचरम इति । अनाहारकपदेऽनाहारकत्वेन जीवः सिद्धश्चाचरमो वाच्या, अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात् , जीवश्चेह सिद्धावस्थ एवेति, एतदेवाह-'अणाहारओ'इत्यादि, 'सेसठाणेसु'त्ति नारकादिषु पदेषु 'जहा आहारओ'त्ति स्याचरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति ॥ भव्यद्वारे-भवसिद्धीओ'इत्यादि, भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तः, एतच सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितमिति 'अभवसिद्धिओ सबत्य'त्ति सर्वेषु जीवादिपदेषु 'नो चरिमेत्ति अभव्यस्य भव्यत्वेनाभावात् , 'नोभवेत्यादि उभयनिषेधवान् जीवपदे सिद्धपदे | चाभवसिद्धिकवदचरमः तस्य सिद्धत्वात् सिद्धस्य च सिद्धत्वपर्यायानपगमादिति ॥ सज्ञिद्वारे-'सन्नी जहा आहारओ'त्ति सज्ञित्वेन स्याचरमः स्वादचरम इत्यर्थः, एवमसङ्ग्यपि, उभयनिषेधवांश्च जीवः सिद्धनाचरमो, मनुष्यरतु चरमः| उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति ॥ लेश्याद्वारे-'सलेसा'इत्यादि, 'जहा आहा-| है रओ'त्ति स्याचरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति ॥ दृष्टिद्वारे
'सम्मदिट्टी जहा अणाहारओ'त्ति जीवः सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि,
दीप अनुक्रम [७२१-७२६]
~ 1475~