________________
आगम
(०५)
प्रत
सूत्रांक
[५६४
-५६५]
दीप
अनुक्रम
[६६४
-६६५]
“भगवती”- अंगसूत्र-५ (मूलं + वृत्तिः)
शतक [१६], वर्ग [–], अंतर् शतक [-], उद्देशक [१], मूलं [५६४-५६५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०५], अंग सूत्र [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्तिः
|धिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति ॥ एतदेव चतुर्विंशतिदण्डके दर्शयति- 'नेरइए' इत्यादि, अधिकरणी जीव इति प्रागुक्तं, स च दूरवर्त्तिनाऽप्यधिकरणेन स्याद् यथा गोमान् इत्यतः पृच्छति - 'जीवे ण' मित्यादि, 'साहिगरणि'त्ति सह- सहभाविनाऽधिकरणेन-शरीरादिना वर्त्तत इति समासान्तेन्विधिः साधिकरणी, संसारिजीवस्य शरीरेन्द्रि|यरूपाधिकरणस्य सर्वदैव सहचारित्वात् साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तु स्वस्वामिभावस्य तदविरति| रूपस्य सहवर्त्तित्वाज्जीवः साधिकरणीत्युच्यते, अत एव प्रक्ष्यति — 'अविरहं पचति, अत एव संयतानां शरीरादिसद्धावेऽप्यविरतेरभावान्न साधिकरणित्वं, 'निरहिगरणि'त्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः अधिकरणदूरवत्तीत्यर्थः, स च न भवति, अविरतेरधिकरणभूताया अदूरवर्त्तित्वादिति, अथवा सहाधिकरणिभिः - पुत्रमित्रादिभिर्वर्त्तत इति साधिकरणी, कस्यापि जीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति ॥ अधिकरणाधिकारादेवेदमाह - 'जीवे ण'मित्यादि, 'आयाहिगरणि'त्ति अधिकरणी| कृष्यादिमान् आत्मनाऽधिकरणी आत्माधिकरणी, ननु यस्य कृष्यादि नास्ति स कथमधिकरणीति १, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणित्ति परतः परेषामधिकरणे प्रवर्त्तनेनाधिकरणी पराधिकरणी, 'तदुभयाहिगरणि'त्ति तयोः - आत्मपरयोरुभयं तदुभयं ततोऽधिकरणी यः स तथेति ॥ अथाधिकरणस्यैव हेतुप्ररूपणा|र्थमाह- 'जीवाण'मित्यादि, 'आयप्पओगनियतिए ति आत्मनः प्रयोगेण - मनःप्रभृतिव्यापारेण निर्वर्त्तितं-निष्पादिवं यत्तत्तथा, एवमन्यदपि द्वयम् ॥ ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिर्वर्त्तितादि भवि -
Eaton International
For Parks Use Only
~ 1401~