________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३३]
(०३)
प्रत
सूत्रांक [७३३]
CCCCCCCCSAX
चयति सूक्ष्मानालोचयति अथवा सूक्ष्मानालोचयति परमेवं मन्वानः॥१॥-यः किल सूक्ष्मानालोचयति कथं स न बादरान दोषानालोचयति ॥] 'छन्नति प्रच्छन्नमालोचयति यथाऽऽत्मनैव शृणोति नाचार्यः, भणितं च-"छन्नं तह आलोए जह नवरं अप्पणा सुणइ ॥" इति, [छन्नं तथालोचयति यथाऽऽत्मनैव शृणोति परं] 'सदाउलयं ति शब्देनाकुलं है।
शब्दाकुलं-बृहच्छब्द, तथा महता शब्देनालोचयति यथाऽन्येऽप्यगीतार्थास्ते शृण्वन्तीति, अभाणि च-"सद्दाउल ६ बड्डेणं सद्देणालोय जह अगीयावि बोहेइ ॥" इति [शब्दाकुलं बृहता शब्देनालोचयति यथा अगीतार्था अपि बोध
यति ॥] 'बहुजणं'ति बहवो जना-आलोचनाचार्याः यस्मिन्नालोचने तद्बहुजनं, अयमभिप्राय:-"एकस्सालोएत्ता जो आलोए पुणोवि अन्नस्स । ते चेष य अवराहे त होइ बहुजणं नाम ॥१॥” इति, [एकस्यालोच्य पार्वे यः पुनरन्यस्याप्यालोचयति तानेवापराधान् तद्भवति वहुजनं नाम ।। १॥] अव्यक्तस्य-अगीतार्थस्य गुरोः सकाशे यदालोचन तत्सम्बन्धादव्यक्तमुच्यते, उक्तं च-"जो य अगीयस्थस्सा आलोए तं तु होइ अन्वतं" इति [यश्चागीतार्थस्यालोचयति तत्तु भवत्यव्यक्तं ॥] 'तस्सेवित्ति ये दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालोचनं स तत्सेविलक्षण आलोचनादोषः, तत्र चायमभिप्रायः आलोचयितु:-"जह एसो मतुल्लो न दाही गुरुगमेव पच्छित्तं । इय जो किलिडचित्तो विन्ना आलोयणा सेणं ॥१॥" इति [यथैष मनुल्यो (दोषेणेति) न गुरु प्रायश्चित्तं दास्यति इति यः लिष्टचित्तः तेनालोचना दत्ता एव (सतमित्यर्थः)॥१॥] एतदोषपरिहारिणाऽपि गुणवत एवालोचना देयेति तद्गुणा-| नाह-'दसहि ठाणेही'त्यादि, एवं अनेन क्रमेण यथाऽष्ट स्थानके तथा इदं सूत्रं पठनीयमित्यर्थः, कियहूरं यावत्खते
गाथा:
दीप अनुक्रम [९२८]
Tiandiarary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~974~